राज्यपालः डेका कस्तूरबा गांधी बालिका आवासीय विद्यालयाय प्रदत्तवान् पञ्च संगणकानि
रायपुरम्, 02 जनवरीमासः (हि.स.)। राज्यपालः रमेन डेका इत्येषः बालिकानां शिक्षां अङ्कीयरूपेण सशक्तीकर्तुं दिशि प्रशंसनीयां प्रयत्नं कृत्वा कस्तूबा गान्धी बालिका आवासीयविद्यालयस्य राजपुरकला लखनपुर सरगुजाजिल्लायाम् अवस्थितस्य छात्रिभ्यः स्वेच्छानुदाननि
राज्यपाल रमेन डेका कस्तूबा गांधी बालिका आवासीय विद्यालय काे कम्प्यूटर प्रदान करते हुए


रायपुरम्, 02 जनवरीमासः (हि.स.)।

राज्यपालः रमेन डेका इत्येषः बालिकानां शिक्षां अङ्कीयरूपेण सशक्तीकर्तुं दिशि प्रशंसनीयां प्रयत्नं कृत्वा कस्तूबा गान्धी बालिका आवासीयविद्यालयस्य राजपुरकला लखनपुर सरगुजाजिल्लायाम् अवस्थितस्य छात्रिभ्यः स्वेच्छानुदाननिधेः माध्यमेन पञ्च संगणकानि प्रदत्तवान्।

राज्यपालः स्वस्य सरगुजाजिलाप्रवासकाले उक्तस्य आवासीयविद्यालयस्य निरीक्षणं कृतवान्। तस्मिन् समये सः छात्राणां शैक्षणिकगतिविधीनाम् अवलोकनं कृत्वा विद्यालये सुविधावृद्ध्यर्थं अतिरिक्तसंगणकान् उपलब्धान् कर्तुं स्वीकृतिं दत्तवान्।

तस्य परिणामस्वरूपेण अद्य शुक्रवासरे विद्यालयाय लोकभवने राज्यपालकराभ्यां पञ्च संगणका दत्ताः। अस्य सुविधायाः कारणेन छात्राणां अध्ययनकार्येषु गुणात्मकः सुधारो भविष्यति तथा च ताः अङ्कीयशिक्षया उत्तमतररूपेण सम्बद्धाः भविष्यन्ति।

अस्मिन्नवसरे राज्यपालस्य सचिवः डॉ सी आर प्रसन्ना विद्यालयस्य अधीक्षिका अनुराधा सिंह तथा अन्ये कर्मचारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार