Enter your Email Address to subscribe to our newsletters


अम्बिकापुरम्/जशपुरम्, ०२ जनवरीमास: (हि.स.)। महिलानां बालिकानां च सुरक्षा, सम्मानं सशक्तीकरणं च उद्दिश्य जशपुर–आरक्षिणा रजत–जयन्ती–वर्षस्य २०२५–२६ अन्तर्गतं व्यापकं जन–जागरूकता–अभियानम् आरब्धम्। अस्य अभियानस्य शुभारम्भः १ जनवरी २०२६ तमे दिने जशपुर–जनपद–मुख्यालये आयोजितेन जिलास्तरीय–कार्यक्रमेण कृतः। अस्मिन् कार्यक्रमे जशपुर–विधायिका रायमुनी–भगत:, नगरपालिका–अध्यक्षः अरविन्द–भगत:, जशपुर–उपायुक्त: रोहित–व्यासः, वरिष्ठ–आरक्षी–अधीक्षकः शशि–मोहन–सिंहः, अतिरिक्त–आरक्षी–अधीक्षकः अनिल–सोनी इत्यादयः जनप्रतिनिधयः, प्रशासनिक–अधिकारिणः, समाजसेविनः तथा बहवः नागरिकाः उपस्थिताः आसन्।
जशपुर–आरक्षिणा सञ्चालितमेतत् जन–जागरूकता–अभियानं १ जनवरीतः ११ जनवरी २०२६ पर्यन्तं सम्पूर्णे जनपदे नगरीयेषु, ग्रामीणेषु, दूरस्थेषु संवेदनशील–क्षेत्रेषु च चरणबद्धरूपेण सञ्चाल्यते। अनेन माध्यमेन महिलाभ्यः बालिकाभ्यश्च तेषामधिकाराणां, सुरक्षा–उपायानां, विविध–शासकीय–योजनानां च विषये विवरणं प्रदास्यते, येन ताः आत्मसशक्ताः सुरक्षिताश्च अनुभवेयुः।
कार्यक्रमावसरे समाजे महिलानां सकारात्मकीं प्रेरणादायि–भूमिकां रेखाङ्कयन् जनपदे तिस्र: महिलाः उत्कृष्ट–कार्येभ्यः सम्मानिताः। सम्मानितेषु— जनजातीय–अञ्चलेषु बालकेभ्यः क्रिकेट–प्रशिक्षणं दत्त्वा तेषां क्रीडा–प्रतिभां विकसितवती पण्डरी–बाई, पर्वतारोहण–क्षेत्रे जनपदस्य राज्यस्य च नाम प्रकाशयितवती सुमन–ताम्रकार:, तथा बीसीसीआई–अन्त:–१९–दलस्य चयनं प्राप्य जनपदं गौरवान्वितवती आकाङ्क्षा–राणी च अन्तर्भवति। एतेषां सम्माननेन बालिकानां युवतीनां च कृते क्रीडा-शिक्षा-अन्येषु क्षेत्रेषु अग्रे गन्तुं प्रेरणा प्रदत्ता।
अभियानान्तर्गतं जशपुर–आरक्षिणा शैक्षणिक–संस्थासु, विपणिषु, संवेदनशील–क्षेत्रेषु च जन–संवाद–कार्यक्रमाः आयोज्यन्ते। एतेषु कार्यक्रमेषु गृह–हिंसा, लैङ्गिक–उत्पीड़नम्, दहेज–प्रतिषेध–अधिनियमः, बाल–विवाहस्य दुष्परिणामाः, मादक–द्रव्य–दुरुपयोगस्य दुष्प्रभावाः, साइबर–अपराधाः, पॉक्सो–अधिनियमः, मानव–तस्करी, टोनही–पीडनम् इत्यादिनां सामाजिक–कुरीतीनां विषये विस्तरेण अवगतिः प्रदास्यते। तदतिरिक्तं महिलाभ्यः बालिकाभ्यश्च आत्म–रक्षा–उपायाः, पीडित–प्रतिकर–योजना, महिला–सहायताकेन्द्रम्, आरक्षी–सहायता–तन्त्रं, विधिना प्रदत्ताः अधिकाराश्च अवगताः करिष्यन्ते। स्वच्छता, पोषणं, स्वास्थ्यं च विषयीकृत्य अपि जागरूकता–सत्राणि आयोज्यन्ते।
पूर्वमेव जशपुर–आरक्षिणा सञ्चालितस्य “नोनी–रक्षा–दलस्य” माध्यमेन महिलानां निरन्तरं जागरणं क्रियते। महिला–सुरक्षायै त्वरित–सहायतार्थं २४ घण्टा–सक्रियः सहायता–अङ्कः ९४७९१२८४०० घोषितः अस्ति। आपत्कालीन–स्थितिषु शीघ्र–कार्यार्थं पृथक् वाहनम् अपि उपलब्धीकृतम्। नोनी–रक्षा–दलस्य संचालनं डीएसपी–स्तरीया महिला–पुलिस–अधिकारिणी आशा–लकड़ा तथा तस्याः विशेष–प्रशिक्षित–दलेन क्रियते, यत् महिलानां विषयेषु संवेदनशीलतया तत्परतया च कार्यं करोति।
विद्यालय–महाविद्यालय–स्तरे छात्राभ्यः आजीविका–परामर्शः, आत्मविश्वास–विकासः, व्यक्तित्व–निर्माण–सम्बद्धानि सत्राणि आयोज्यन्ते। छात्राणां सक्रिय–सहभागं सुनिश्चेतुं क्रीडा–प्रतियोगिताः, निबन्ध–लेखनम्, कविता–पाठः, रंगवल्ली–प्रतियोगिताश्च आयोज्यन्ते।
वरिष्ठ–आरक्षी–अधीक्षकः शशि–मोहन–सिंहः अवदत् यत् भारतस्य संविधानं न्यायव्यवस्था च महिलानां सशक्तीकरणं करोति, तथा जशपुर–आरक्षिण: महिलानां सुरक्षायै सर्वदा सज्जिता: सन्ति। नोनी–रक्षा–दलं निरन्तरं सक्रियम् अस्ति, आगामि–दिनेषु तस्य कार्य–विस्तारमपि भविष्यति। अस्य अभियानस्य माध्यमेन महिलासु सुरक्षा–विश्वासस्य निर्माणं, अपराध–निवारणाय सामाजिक–सहभागिताया: वृद्धिः, जनपदे सुरक्षितस्य संवेदनशीलस्य च वातावरणस्य निर्माणम्—एव जशपुर–आरक्षिण: प्रमुखं लक्ष्यं वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता