ईरानदेशे मूल्यवृद्धि-विरोधात् उद्भूता अशान्तिः, पवित्रे कोम-नगरे खामेनेई-शासन-विरोधिनः घोषाः अगुंजन्
तेहरान (ईरान), ०२ जनवरीमासः (हि.स.)। ईरान-देशे मूल्यवृद्धेः तथा डॉलर-इत्यपेक्षया ईरानी-रियाल-मुद्रायाः निरन्तर-पतनस्य विरोधात् आरब्धानि प्रदर्शनानि अद्य देशस्य अनेकान् प्रदेशान् व्याप्य प्रसारितानि सन्ति। आन्दोलनस्य पञ्चमे दिने कोम-नगरे न्यूनातिन्य
ईरान की राजधानी तेहरान समेत कई शहरों में प्रदर्शन हो रहे हैं। फोटो -इंटरनेट मीडिया


तेहरान (ईरान), ०२ जनवरीमासः (हि.स.)। ईरान-देशे मूल्यवृद्धेः तथा डॉलर-इत्यपेक्षया ईरानी-रियाल-मुद्रायाः निरन्तर-पतनस्य विरोधात् आरब्धानि प्रदर्शनानि अद्य देशस्य अनेकान् प्रदेशान् व्याप्य प्रसारितानि सन्ति। आन्दोलनस्य पञ्चमे दिने कोम-नगरे न्यूनातिन्यूनं त्रयः जनाः भुषुण्डिप्रहारेण हताः। राजधानी तेहरान-नगरस्य ग्राण्ड-विपणात् रविवासरे उद्भूताया: अशान्तेः अग्नि: सम्पूर्णं देशं दहन्तीव प्रसृता, येन पवित्रं कोम-नगरम् अपि अस्य प्रभावात् नावशिष्टम्।

उल्लेखनीयं यत् पञ्चदशकानन्तरं प्रथमवारम् अस्मिन् नगरे खामेनेई-शासनस्य विरोधे घोषवाक्यानि प्रतिध्वनितानि।

ईरान-इण्टरनेशनल-नामक-संस्थायाः प्रतिवेदनानुसारं आन्दोलनस्य पञ्चमे दिने फूलदशहर, दारियुश-अंसारी-बख्तियारवन्द, कुहदाश्त, अमीर-हेसाम-खोदायरीफर्द, अजना तथा शायन-असदुल्लाही इत्यादिषु स्थलेषु जातेसु संघर्षेषु न्यूनातिन्यूनं चत्वारः प्रदर्शनकारिणः मृत्युमुपगताः।

ईरानस्य पवित्रे कोम-नगरे तीव्रा अशान्तिः प्रस्फुटिता। कोम-नगरं शिया-धर्मगुरूणां तथा इस्लामिक-गणराज्यस्य प्रमुखं केन्द्रम् इति ख्यातम् अस्ति। कठोर-सुरक्षा-व्यवस्थायामपि निर्भीकैः प्रदर्शनकारिभिः अयातुल्ला अली-खामेनेई-शासनस्य विरुद्धं घोषाः कृताः। सुरक्षा-कर्मचारिभिः कृते गोलीप्रहारे त्रयः प्रदर्शनकारिणः प्राणान् त्यक्तवन्तः।

तेहरान, मशहद, इस्फहान, लोरेस्तान, खुज़ेस्तान तथा अन्येषु लघु-नगरेषु अपि रात्रिपर्यन्तं प्रदर्शनकारिणः मार्गेषु घोषवाक्यानि उच्चारितवन्तः। गत-पञ्चदशकानां इतिहासे प्रथमवारं जनैः खामेनेई-शासनस्य विरुद्धं विद्रोहः आरब्धः इति मन्यते। मध्य-ईरानस्य कज्विन-नगरे तथा पवित्रे कोम-नगरे प्रदर्शनकारिभिः “एष: अन्तिम: संग्रामः” इत्यादीनि घोषवाक्यानि उद्घोषितानि। उत्तर-ईराने रात्रौ “तानाशाहः नाश्यताम्” इति घोषाः प्रतिध्वनिताः।

फॉक्स-समाचारस्य प्रतिवेदनानुसारं विपक्षी-संस्था नेशनल-काउन्सिल-ऑफ-रेजिस्टेन्स-ऑफ-ईरान: अवदत् यत् गुरुवासर-प्रभाते तेहरान-मारवदश्त-केरमानशाह-डेल्फान-अराक इत्यादिषु नगरेषु प्रदर्शनकारिणां सुरक्षाबलानां च मध्ये संघर्षाः अनवरताः आसन्।चहारमहल-बख्तियारी-प्रान्तस्य लोरदेगान-नगरे सम्पूर्णा रात्रिः गुटिकावर्षा जाता। रिवोल्यूशनरी-गार्ड्स-सम्बद्धा फार्स-समाचारसंस्था सूचयति यत् जनसमूहेन शासकीय-भवनानि लक्ष्यीकृत्य पाषाणप्रहारः कृतः।प्रदर्शनकारिभिः राज्यपाल-कार्यालयम्, न्यायपालिका-भवनम्, शहीद-फाउण्डेशन, शुक्रवासरीय-नमाज-परिसरः तथा बहूनि धनागाराणि लक्ष्यीकृतानि। सम्मर्द-विसर्जनार्थम् आरक्षीद्वारा अश्रुवात: प्रयुक्तः। अस्मिन् घटनाक्रमे बहूनि भवनानि क्षतिग्रस्तानि, संघर्षेषु द्वौ जनौ मृत्युमुपगतौ।

कुर्द-अधिकार-संस्था ‘हेंगाओ’ अवदत् यत् लोरदेगान-नगरे सुरक्षा-बलैः प्रदर्शनकारिषु गुटिकाप्रयोगः कृतः। कुहदाश्त-नगरे अधिकारिभिः सूचितं यत् संघर्षेषु बासिज-स्वयंसेवी-अर्धसैनिक-बलस्य एकः सदस्यः मृतः, अन्ये त्रयोदश जनाः आहताः।

अमेरिका-स्थिता मानवाधिकार-संस्था ह्यूमन-राइट्स-एक्टिविस्ट्स-समाचारसंस्था सूचयति यत् तेहरान-नगरे प्रदर्शनकाले गृहीता: षट् महिलाः एविन-कारागारस्य महिला-विभागे प्रेषिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता