प्रयागराज माघ मेलापके श्रद्धालूनां स्वास्थ्य सुरक्षायै सक्रिया वर्तिष्यते 50 रोगिवाहनानि
प्रयागराजः, 02 जनवरीमासः(हि.स.)। उत्तरप्रदेशस्य प्रयागराजे माघमेलायां तीर्थयात्रिकाणां स्वास्थ्यसुरक्षां प्रति अहोरात्रं पञ्चाशद् रुग्णवाहनानि सक्रियाणि भविष्यन्ति। गुरुवासरे रात्रौ प्रयागराजमण्डलायुक्ता सौम्या अग्रवाल मुख्यचिकित्सा-अधिकाऱ्याः सह
माघ मेला क्षेत्र में गुरुवार रात एम्बुलेंस सेवा का शुभारंभ करते हुए मंडलायुक्त सौम्या अग्रवाल एवं सीएमओ का छाया चित्र


प्रयागराजः, 02 जनवरीमासः(हि.स.)।

उत्तरप्रदेशस्य प्रयागराजे माघमेलायां तीर्थयात्रिकाणां स्वास्थ्यसुरक्षां प्रति अहोरात्रं पञ्चाशद् रुग्णवाहनानि सक्रियाणि भविष्यन्ति। गुरुवासरे रात्रौ प्रयागराजमण्डलायुक्ता सौम्या अग्रवाल मुख्यचिकित्सा-अधिकाऱ्याः सह हरितध्वजं दर्शयित्वा तानि प्रेषितवती।

मण्डलायुक्तया उक्तं यत् तीर्थयात्रिकेभ्यः स्वास्थ्यसम्बद्धं सहयोगं दातुं मेला-क्षेत्रे पञ्चाशद् रुग्णवाहनानि ALS द्वादश तथा BLS अष्टत्रिंशत् सक्रियाणि भविष्यन्ति। अस्य कार्यस्य निमित्तं शतरुग्णवाहनकर्मचारिभ्यः प्रशिक्षणं दत्तम्। सर्वेभ्यः कर्मिभ्यः मेला-क्षेत्रस्य मार्गरेखाचित्रस्य अपि ज्ञानं दत्तम्।

सा अवदत् यत् विंशतिशय्यायुक्तौ द्वौ महावैद्यकीयालयौ स्थापितौ सक्रियौ च जातौ। तेन सह मेला-क्षेत्रे द्वादश प्राथमिकचिकित्साकेन्द्राणि अपि निर्मितानि।

---------------

हिन्दुस्थान समाचार