Enter your Email Address to subscribe to our newsletters

भोपालम्, ०२ जनवरीमासः (हि.स.)।राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दी-वर्षस्य अवसरे देशव्यापिन्याः प्रवास-शृङ्खलायाः अन्तर्गतं सरसंघचालकः डॉ.मोहन-भागवत: अद्य मध्यप्रदेशस्य द्विदिवसीय-प्रवासाय भोपाल-नगरम् आगमिष्यति। अस्मिन् प्रवासे सः मध्य-भारत-प्रान्तस्य विभाग-केन्द्रे युवभि:, प्रमुखजनै: तथा महिलाभि: च सह प्रत्यक्षं संवादं करिष्यति।
सरसंघचालकः डॉ.भागवत: द्वयोः दिवसयोः भोपाल-नगरे समाजस्य विविध-वर्गैः सह संवादं करिष्यति। अस्य प्रवासस्य प्रमुखोद्देश्यं संघस्य शत-वर्षीय-यात्रा, वर्तमान-सामाजिक-परिस्थितयः तथा देश-समाज-निर्माणे नागरिकाणां भूमिका इत्येतेषु विषयेषु विमर्शः अस्ति। अस्मिन् अवसरे चत्वारः प्रमुखाः कार्यक्रमाः आयोजयिष्यन्ते, येषु युवा-वर्गः, सामाजिक-धार्मिक-नेतार: तथा मातृशक्तिः विशेषरूपेण आमन्त्रिताः सन्ति। सर्वे कार्यक्रमाः चयनित-सहभागिभिः सह संवादात्मक-स्वरूपेण सम्पन्नाः भविष्यन्ति।
विभाग-प्रमुखः सोमकान्त-उमालकरः अवदत् यत् सरसंघचालकः अद्य प्रान्त-स्तरीय-युवा-संवाद-कार्यक्रमम् सम्बोधयिष्यति। अयं कार्यक्रमः कुशाभाऊ-ठाकरे-सभागृहे प्रातः ९.३० वादने आरभ्यते। अस्मिन् युवा-संवादे प्रदेशस्य १६ जनपदेभ्यः चयनिताः ते युवान: सहभागं करिष्यन्ति, ये शिक्षायां, सेवायां, नवाचाराय, सामाजिक-कार्यक्षेत्रेषु च उल्लेखनीयानि कार्याणि साधितवन्तः सन्ति। अस्मिन् संवादे सरसंघचालकः राष्ट्र-निर्माणे, सामाजिक-दायित्वे तथा मूल्य-भूमिकायां युवभि: सह विचारान् चर्चयिष्यति।
अपराह्णे ५.३० वादने भोपाल-नगरे रविन्द्र-भवने स्थिते हंस-ध्वनि-सभागृहे प्रमुख-जन-गोष्ठी आयोजिता अस्ति। अस्यां गोष्ठ्यां भोपाल-विभागस्य विविध-क्षेत्रेषु सक्रियाः प्रमुखजनाः आमन्त्रिताः सन्ति। अत्र संघस्य शताब्दी-यात्रा, सामाजिक-समरसता तथा वर्तमान-कालस्य समस्या: इत्यादिषु विषयेषु संवादः भविष्यति।
विभाग-प्रमुखः सोमकान्तः सूचितवान् यत् सरसंघचालकस्य प्रवासस्य द्वितीये दिने (०३ जनवरीमासः) प्रातः ९.३० वादने कुशाभाऊ-ठाकरे-सभागृहे ‘सामाजिक-सद्भाव-सभा’ आयोजिता अस्ति। अस्यां सभायां प्रान्तस्य सर्वेभ्यः जनपदेभ्यः विविध-समाजानां प्रमुखजनाः सहभागं करिष्यन्ति। अस्याः सभायाः उद्देश्यं सामाजिक-एकता, समरसता तथा पारस्परिक-सहयोगस्य सुदृढीकरणम् अस्ति। सरसंघचालकः अस्मिन् मंचे समाज-संयोजक-विचारान् तथा सहभाग-दायित्व-विषये मार्गदर्शनं करिष्यति।
एवमेव, तस्मिन्नेव दिने सायं ५ वादने भोपाल-नगरस्य प्रमुख-मातृशक्तिभिः सह ‘शक्ति-संवाद-कार्यक्रमः’ आयोजयिष्यते। अस्मिन् संवादे समाजे, कुटुम्बे तथा राष्ट्र-निर्माणे मातृशक्तेः भूमिका इत्यस्मिन् विषये चर्चा भविष्यति। महिला-सहभागितायाः सामाजिक-नेतृत्वस्य च दृष्ट्या अयं कार्यक्रमः अत्यन्तं महत्त्वपूर्णः मन्यते।
विभाग-प्रमुखः अपि अवदत् यत् एतेषु सर्वेषु सत्रेषु सहभागाय पूर्वमेव चयनिताः जनाः आमन्त्रिताः सन्ति। शताब्दी-वर्षे एतादृशानां कार्यक्रमाणाम् एकम् उद्देश्यम् एतत् अपि अस्ति यत् जनाः संघस्य विषये यत् जिज्ञासन्ति, तस्य तथ्यात्मकं यथार्थं च ज्ञानं प्राप्नुयुः। अस्मिन् प्रवासे सरसंघचालकः राष्ट्रीय-स्वयंसेवक-संघस्य विषये वास्तविकं स्पष्टं च विवरणं प्रदास्यति।
शताब्दी-वर्षे संघं ज्ञातुं वर्धिता जिज्ञासा
राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दी-वर्षस्य कारणात् समाजस्य विविध-वर्गेषु संघस्य विषये जिज्ञासा रुचिश्च वर्धिता अस्ति। सरसंघचालकस्य अनेन प्रवासमाध्यमेन जनाः संघस्य विषयेषु तथ्यात्मकं सम्यक् च अवगमिष्यन्ति। सहैव, देश-समाज-निर्माणे नागरिकानां सक्रिय-भूमिका कथं भवितुं शक्नोति इत्यपि स्पष्टं भविष्यति। अतः अयं प्रवासः भोपाल-नगरे शताब्दी-वर्षस्य एकं महत्त्वपूर्णं वैचारिकं सामाजिकं च आयोजनम् इति दृष्टः।
हिन्दुस्थान समाचार / अंशु गुप्ता