Enter your Email Address to subscribe to our newsletters

-जनपदव्यापिन्यः अद्य विशेषा ग्राम-सभा: तथा वार्ड-सभा: आयोज्यन्ते
सागरः, ०२ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य सागर-जनपदे उपायुक्त: संदीप-जी-आर-इत्यस्य अभिनव-प्रयत्नेन मार्ग-सुरक्षा-जागरूकतायै देशे प्रथमवारम् अद्य शुक्रवासरे व्यक्तीनां जीवन-सुरक्षायाः उद्देश्येन मार्ग-सुरक्षा-विषये विशेषा ग्राम-सभा: तथा वार्ड-सभा: आयोज्यन्ते।उपायुक्तस्य अनुसारं दृष्टिगोचरं जातम् यत् सागर-जनपदान्तर्गते मार्ग-दुर्घटनाभ्यः जन-हानिः निरन्तरं भवति। जनपदे मार्ग-दुर्घटनाभ्यः सम्भवमानां जन-हानीनां न्यूनतायै, सामान्य-नागरिकानां, बालकानां, वृद्धानां तथा पथिकानां जीवन-सुरक्षां सुनिश्चितं कर्तुं च एताः विशेषा ग्राम-सभा: तथा वार्ड-सभा: आयोज्यन्ते।उपायुक्त संदीप-जी-आर: अवदत् यत् एतासु ग्राम-वार्ड-सभासु वाहन-चालनकाले यातायात-दीपानां (ट्रैफिक-लाइट्) संकेत-चिह्नानां च पालनं कर्तव्यम् इति सूचना प्रदास्यते। सर्वदा हेल्मेट् तथा सीट्-बेल्ट् धारयित्वा वाहनं चालयेत्, येन जीवनं सुरक्षितं भवति। ग्राम्य-मार्गात् मुख्य-मार्गं प्रति आगच्छन् पूर्वं दक्षिण-वाम-दिशयोः अवलोकनं कर्तव्यम्—मुख्य-मार्गे किमपि वाहनम् आगच्छति वा न इति। वेग-सीमायां वाहनं चालयेत्, मद्यपानं नशा वा कृत्वा वाहन-चालनं न कुर्यात्, वाहन-चालनकाले दूरभाषस्य उपयोगं न कुर्यात्।पादचारणकाले ज़ेब्रा-क्रॉसिङ् तथा पादपाथस्य उपयोगं कुर्यात्, सम्यक्पंक्तौ गच्छेत्। दुर्व्यवस्थित-युक्तानि वाहनानि दुर्घटनायाः कारणानि भवन्ति, अतः वाहनस्य सम्यक्संरक्षणम् आवश्यकम्। वक्र-स्थलेषु वाहन-अतिक्रमणं (ओवरटेक्) न कुर्यात्। वक्रेषु चतुष्पथेषुषु च वाहनस्य गतिं मन्दां कुर्यात्।द्विचक्र-वाहने त्रयाणां व्यक्तीनाम् उपवेशनं न करणीयम्। वाहन-चालनकाले अन्येषु विषयेषु ध्यानं न दद्यात्, सम्पूर्णं ध्यानं मार्गे एव स्थापयेत्। रात्रौ तथा दुर्वातावरणे समसश्क्षदीपानां सम्यक्-उपयोगं कुर्यात्, संकेत-चिह्नानां च प्रयोगं कुर्यात्। हलयन्त्रेषु तथा अन्येषु वाहनेषु क्षमतात् अधिकानां व्यक्तीनां सामग्रीनां वा वहनं न करणीयम्।मार्गे गमनकाले वाहन-चालनकाले वा सुरक्षा-नियमानुसारं वाम-पार्श्वे एव गन्तव्यम्, येन दक्षिण-पार्श्वात् आगच्छद्भिः वाहनै: धक्का न भवेत्। वाहनं वक्रयन्, वाहनस्य वेगं न्यूनं कुर्वन् वा अन्यस्मै वाहनाय मार्गं ददन् आवश्यक-संकेतानां प्रयोगः करणीयः। धक्का-निवारणाय अन्येषां वाहनानां मध्ये समुचितम् अन्तरं स्थापयेत्। यदि द्वयोः वाहनयोः मध्ये पर्याप्तं अन्तरं न स्यात् तथा अग्रस्थितं वाहनं सहसा स्थगयेत्, तदा आकस्मिक-अवरोध-प्रयोगः आवश्यकः भवति, येन धक्काया: सम्भावना वर्धते। विपरीत-दिशायां (रॉङ्-साइड्) वाहन-चालनं न कुर्यात्। शीघ्रावरोधक:, वक्र-स्थलं, पुलम्, हलयन्त्रम् तथा अन्येषु वाहनेषु रेडियम्/प्रतिबिम्बक-पट्टिकाः नियोक्तव्या:।
हिन्दुस्थान समाचार / अंशु गुप्ता