Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०२ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी अद्य केरल-राज्यस्य महान् समाज-सुधारकस्य मन्नथु–पद्मनाभनस्य अष्टचत्वारिंशत्तमे (४८) जयन्त्यवसरे तस्य पुण्य-स्मरणं कृतवान्। सः अवदत् यत् तस्य आदर्शाः न्यायपूर्णस्य, दयालोः तथा सद्भावपूर्णस्य समाजस्य सन्देशं वहन्ति। तस्य आदर्शाः अस्माकं सर्वेषां मार्गदर्शनं निरन्तरं करिष्यन्ति इति प्रधानमन्त्रिणा अभिहितम्।प्रधानमन्त्री नरेन्द्र–मोदी ‘एक्स' माध्यमे लिखितवान्—“मन्नथु–पद्मनाभनस्य जयन्त्यां वयम् अद्य श्रद्धया तं स्मरामः। तस्य सम्पूर्णं जीवनं समाज-सेवायै समर्पितम् आसीत्। सः दूरदर्शी आसीत्। तस्य मतम् आसीत् यत् सत्य-प्रगतिः गरिमायां, समानतायां तथा सामाजिक-परिवर्तने निहिता अस्ति। स्वास्थ्ये, शिक्षायां, महिला-सशक्तिकरणे च तस्य प्रयत्नाः अत्यन्तं प्रेरणादायकाः सन्ति। तस्य आदर्शाः न्यायपूर्णं, दयालुं तथा सद्भावयुक्तं समाजं निर्मातुम् अस्मान् प्रेरयन्ति।”उल्लेखनीयं यत् मन्नथु–पद्मनाभनः ०२ जनवरी १८७८ तमे वर्षे जातः। सः महान् समाज-सुधारकः, स्वातन्त्र्य-सेनानी तथा नायर–सेवा–समाजस्य संस्थापकः आसीत्। नायर-समुदायस्य उत्थानाय तथा केरल-राज्ये सामाजिक-समानतायाः स्थापनायै कृतैः कार्यैः सः विशेषतया ख्यातः अस्ति। तस्मै “भारत-केसरी” इति उपाधिः प्रदत्ता आसीत्। सरदार: के.एम.पणिक्करः तं “केरलस्य मदन–मोहन–मालवीयः” इति कथयति स्म। १९६६ तमे वर्षे सः पद्म-भूषणसम्माननेन अलङ्कृतः।मन्नथु–पद्मनाभनः वैकोम–सत्याग्रहे (१९२४) तथा गुरुवायूर–सत्याग्रहे (१९३१) सक्रियां भूमिकां निर्वहत्, येन निम्न-वर्गाणां मन्दिर-प्रवेशस्य अधिकारः सुनिश्चितः अभवत्। तदेव न, केरल-राज्ये शतश: विद्यालया:, महाविद्यालया: तथा चिकित्सालया: च तेन स्थापिता:। १९४९ तमे वर्षे सः त्रावणकोर-विधानसभायाः सदस्यः अपि आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता