Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०२ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी महाभारतस्य एकेन श्लोकेन प्रेरणां गृहीत्वा देशवासिनः दृढनिश्चयेन अग्रे गन्तुम् आह्वानं कृतवान्। सः कामनाम् अकरोत् यत् प्रत्येकस्मिन् प्रयत्ने सफलतां प्राप्नुयुः तथा नूतन-वर्षे संकल्पानां सिद्धिः भवेत्।प्रधानमन्त्री नरेन्द्र–मोदी अद्य प्रातः ‘एक्स' माध्यमेन लिखितवान्—“मम कामना अस्ति यत् अग्रिम-काले भवतः प्रत्येकस्मिन् प्रयत्ने सफलतां लभध्वम्। दृढ-संकल्पेन इच्छाशक्त्या च नूतन-वर्षे भवतः संकल्पानां सिद्धिः भवतु।”एतेन सह प्रधानमन्त्रिणा महाभारतस्य उद्योगपर्वणः (१३५/२९) श्लोकः अपि उद्धृतः—
“उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु।भविष्यतीत्येव मनः कृत्वा सततमव्यथैः॥”
अस्य श्लोकस्य भावार्थः—उत्तिष्ठेत्, जागरूकः भवेत्, कल्याणकारीषु कार्येषु नियुक्त: स्यात्। “मम कार्यम् अवश्यमेव सिद्धं भविष्यति” इति दृढनिश्चयं मनसि कृत्वा, निरन्तरं शोक-चिन्तारहितः सन् कर्म आचरितव्यम्।प्रधानमन्त्रिणः अयं सन्देशः नववर्षस्य आरम्भे देशवासिनां कृते प्रेरणादायकः, उत्साहवर्धकः च मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता