रेलमन्त्रिणः दृढ़तापूर्वकं कथनम् — १५ अगस्त २०२७ तमे दिनाङ्के आरप्स्यते बुलेट्-रेल-सेवा, पालघर-प्रदेशे पर्वतीय-सुरङ्ग इत्यस्य ब्रेकथ्रू
नवदिल्ली, 02 जनवरी। रेलमन्त्री अश्विनीवैष्णवः शुक्रवासरे मुम्बई–अहमदाबाद उच्चगति-रेल-परियोजनायां (बुलेट्-रेल) ऐतिहासिक-सफलतां उद्घोषयन् अवदत् यत् महाराष्ट्रस्य पालघर-जनपदे विरार्–बोईसर् बुलेट्-रेल-स्थानकयोः मध्ये प्रायः १.५ किलोमीटर् दीर्घायां पर्व
रेल मंत्री अश्विनी वैष्णव शुक्रवार को रेल भवन में बुलेट ट्रेन प्रोजेक्ट के ब्रेकथ्रू के दौरान


नवदिल्ली, 02 जनवरी। रेलमन्त्री अश्विनीवैष्णवः शुक्रवासरे मुम्बई–अहमदाबाद उच्चगति-रेल-परियोजनायां (बुलेट्-रेल) ऐतिहासिक-सफलतां उद्घोषयन् अवदत् यत् महाराष्ट्रस्य पालघर-जनपदे विरार्–बोईसर् बुलेट्-रेल-स्थानकयोः मध्ये प्रायः १.५ किलोमीटर् दीर्घायां पर्वतीय-सुरङ्गायां (माउण्टेन् टनल्–५) सफलः ब्रेकथ्रू प्राप्तः अस्ति। एषा सुरङ्गा महाराष्ट्रे अस्य परियोजनायाः प्रथमः पर्वतीय-सुरङ्गा अस्ति। रेलमन्त्रीणः कथनानुसारं बुलेट्-रेल-परियोजना १५ अगस्त २०२७ पर्यन्तं पूर्णा भविष्यति।

रेलमन्त्री अश्विनीवैष्णवः शुक्रवासरे अत्र रेल-भवनात् आभासि-सम्मेलनमाध्यमेन अस्मिन् कार्यक्रमे सहभागं कृतवान्। सः अवदत् यत् एषा उपलब्धिः परियोजनायाः कृते महत्त्वपूर्णः मील्-स्तम्भः अस्ति। सः उक्तवान्— “अनेन ब्रेकथ्रू-प्राप्त्या ठाणे–अहमदाबाद् पर्यन्तं सम्पूर्णः मार्गः अधुना स्पष्टः अभवत्। केवलं मुम्बई–ठाणे मध्ये समुद्रतले स्थितः भागः एव शेषः अस्ति।”

रेलमन्त्रिणः कथनानुसारं माउण्टेन् टनल्–५ पालघर-जनपदस्य दीर्घतमासु सुरङ्गासु अन्यतमा अस्ति। अस्याः सुरङ्ग इत्यस्याः खनन-कार्यम् उभयतोऽपि कृतम्, अत्याधुनिकया ‘ड्रिल् एण्ड् ब्लास्ट्’ प्रविध्या १८ मासानां काले कार्यं सम्पन्नम्। अस्यां प्रविधौ खनन-समये भूमेः स्थितेः वास्तविक-काले निरीक्षणं शक्यते, आवश्यकतानुसारं च शॉटक्रीट्, रॉक्-बोल्ट् तथा लैटिस्-गर्डर् इत्यादीनि सुरक्षोपायानि स्वीक्रियन्ते। सः अवदत् यत् निर्माण-काले सर्वे सुरक्षा-मानदण्डाः, वायुसञ्चार-व्यवस्था तथा अग्नि-सुरक्षा-उपायाः पूर्णतया पालिताः।

सः अवदत् यत् एतस्मात् पूर्वं ठाणे–बान्द्रा-कुर्ला-समुच्चय (बी.के.सी.) मध्ये प्रायः ५ किलोमीटर् दीर्घा प्रथमाः भूमिगत-सुरङ्गा सेप्टेम्बर् २०२५ मध्ये पूर्णा अभवत्। ५०८ किलोमीटर् दीर्घायां मुम्बई–अहमदाबाद उच्चगति-रेल-परियोजनायां कुलं २७.४ किलोमीटर् दीर्घाः सुरङ्गाः सन्ति, यासु २१ किलोमीटर् भूमिगताः तथा ६.४ किलोमीटर् भूपृष्ठीयाः सुरङ्गाः सन्ति। अस्यां परियोजनायां अष्टौ पर्वतीय-सुरङ्गाः सन्ति, तासु सप्त महाराष्ट्रे (प्रायः ६.०५ किलोमीटर्) तथा एका ३५० मीटर् दीर्घा सुरङ्गा गुजरात-प्रदेशे स्थिताऽस्ति।

रेलमन्त्री अश्विनीवैष्णवः अवदत्— “अस्यां परियोजनायाम् आहत्य द्वादश स्थानकानि भविष्यन्ति। तेषु मुम्बई (बी.के.सी.), ठाणे, विरार्, बोईसर्, वापी, बिलीमोरा, सुरत्, भरूच्, वडोदरा, आणन्द्, अहमदाबाद् तथा साबरमती समाविष्टानि सन्ति। साबरमती अहमदाबाद-क्षेत्रस्य अन्तिम-स्थानकं भविष्यति, मुम्बई-नगरे च बी.के.सी. टर्मिनल् भविष्यति। सामान्यतः ५०८ किलोमीटर् दीर्घस्य मार्गस्य कृते द्वौ डिपो पर्याप्तौ स्याताम्, किन्तु पूर्ववर्ती-महाराष्ट्र-सरकारस्य काले अनुमतिषु विलम्बात् त्रयः डिपो निर्माणीयाः अभवन्।”

अश्विनीवैष्णवः अवदत्— “जापानी-प्रविध्याधारितं एतत् बुलेट्-रेल-यानं ३२० किलोमीटर् प्रतिघण्टा वेगेन धाविष्यति, मुम्बईतः अहमदाबाद् पर्यन्तं यात्राकालं वर्तमानस्य ७–८ घण्टाभ्यः न्यूनीकृत्य प्रायः १ घण्टा ५८ मिनिट् मध्ये समापयिष्यति। एषा परियोजना मध्यम-वर्गस्य कृते किफायती, आरामदायिनी तथा शीघ्र-यात्रायाः श्रेष्ठः विकल्पः भविष्यति।”

परियोजनायाः आर्थिक-पर्यावरणीय-लाभान् प्रकाशयन् रेलमन्त्री अवदत् यत् बुलेट्-रेल् मार्गपरिवहनेन तुलनायां प्रायः ९५ प्रतिशतं कार्बन-डाइ-ऑक्साइड् उत्सर्जनं न्यूनं करिष्यति। सः उक्तवान् यत् बहवः देशाः पर्यावरणीय-कारणैः बुलेट्-रेल्-परियोजनाः स्वीकृतवन्तः, भारतदेशेऽपि अस्याः दूरगामी आर्थिक-लाभाः भविष्यन्ति। एषा परियोजना मार्ग-समीपे आर्थिक-क्रियाकलापान् वर्धयिष्यति, रोजगार-सृजनं करिष्यति तथा नूतन-औद्योगिक-आई.टी.-केन्द्र-विकासे सहायकाऽपि भविष्यति।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी सदा नवीन-कार्यपद्धतीनां स्वीकरणे, गुणवत्तायां तथा प्रविधौ नूतन-मानक-स्थापने बलं दत्तवान्। बुलेट्-रेल्-परियोजना तस्य दृष्टिकोणस्य प्रत्यक्षं उदाहरणम् अस्ति। रेलमन्त्री अवदत्— “अस्याः परियोजनायाः पूर्णतायै १५ अगस्त २०२७ लक्ष्यं निर्धारितम्। प्रथम-चरणे सुरत्–बिलीमोरा, ततः वापी–सुरत्, अनन्तरं वापी–अहमदाबाद्, ठाणे–अहमदाबाद् तथा अन्ते मुम्बई–अहमदाबाद् विभागाः क्रमशः प्रारम्भं करिष्यन्ति।”

---------------

हिन्दुस्थान समाचार