संन्यासात् प्राक् अवदत् ख्वाजा- अद्यापि तत् रूढ़िवादीचिंतनात् युद्धे , तस्य समक्षीकरणं पूर्णजीवने कृतम्
सिडनी, 02 जनवरीमासः (हि.स.) ऑस्ट्रेलियादेशस्य अनुभवी आक्रीडिनः उस्मान् ख्वाजा इत्यस्य स्वस्य अन्ताराष्ट्रियक्रीडाजीवनस्य अन्तिमे चरणे विद्यमानं वर्णपूर्वाग्रहं प्रति मुक्तकण्ठेन स्वमतं प्रकटितवान्। सिड्नी-टेस्ट्-प्रतियोगितायाः पूर्वं द्वादिनपूर
ऑस्ट्रेलियाई सलामी बल्लेबाज उस्मान ख्वाजा


सिडनी, 02 जनवरीमासः (हि.स.)

ऑस्ट्रेलियादेशस्य अनुभवी आक्रीडिनः

उस्मान् ख्वाजा इत्यस्य स्वस्य अन्ताराष्ट्रियक्रीडाजीवनस्य अन्तिमे चरणे विद्यमानं वर्णपूर्वाग्रहं प्रति मुक्तकण्ठेन स्वमतं प्रकटितवान्। सिड्नी-टेस्ट्-प्रतियोगितायाः पूर्वं द्वादिनपूर्वं सञ्चारमाध्यमेभ्यः प्रदत्ते लगभग् एककालान्तरदीर्घे भावूकसम्बोधने ख्वाजा अवदत् यत् सः अद्यापि ताभिः रूढिवादि चिन्ताभिः सह युध्यते, याः सः समग्रे जीवने अनुभूतवान्।

एकोनचत्वारिंशद्वर्षीयः ख्वाजा, यः ऑस्ट्रेलियादेशस्य प्रथमः मुस्लिम्-टेस्ट्-क्रीडकः अस्ति, अवोचत् यत् एशेज्-शृङ्खलायाः प्रथम-टेस्टक्रीडातः पूर्वं तस्य तयारी विषये या आलोचना अभवत्, तस्यां वर्णविचारस्य स्पष्टा झल्का दृष्टा। एशेज्-प्रथम–टेस्टक्रीडातः पूर्वं ख्वाजस्य गोल्फ्-क्रीडनं विषये प्रश्नाः ऊन्नीताः। अनन्तरं पृष्ठभागे उत्पन्नेन अशैथिल्यतारूपेण सः उभयेषु पारिषु उद्घाटन-बल्लेबाजरूपेण न क्रीडितुं शक्तवान्, ब्रिस्बेन्-टेस्ट्-प्रतियोगितायाम् अपि बहिष्कृतः अभूत्। अस्मिन् सन्दर्भे सञ्चारमाध्यमानि केचन च पूर्व-खेलाडाः तस्य निष्ठां प्रति प्रश्नान् उदभावयन्।

ख्वाजा अवदत्—“एतत् मम प्रदर्शनमात्रस्य विषयः नासीत्, अपि तु मयि व्यक्तिगताः आक्रमणाः कृता आसन्। उक्तम्—अहं दले प्रति अनन्यनिष्ठः नास्मि, स्वार्थी अस्मि, श्रमं न करोमि, आलसी अस्मि—एते एव ते वर्णस्टीरियोटाइपाः, यैः सह अहं बाल्यकालादारभ्य ववृद्धे।”

सः पुनरुवाच यत् ऑस्ट्रेलियादले अन्यस्य कस्यचिदपि खिलाडिनः विषये एतादृशं व्यवहारं न दृष्टवान्।

सः अवदत्—“अनेके क्रीडकाः टेस्टक्रीडातः एकदिनपूर्वं गोल्फ् खेलन्ति, केचित् रात्रौ मद्यं पिबन्ति; किन्तु यदि ते आहताः भवन्ति तर्हि कश्चित् किमपि न वदति—ते ‘Australian larrikins’ इति कथ्यन्ते। किन्तु मम विषये यदा अहं आहतः अभवम् तदा मम निष्ठा, मम चरित्रं च प्रश्नचिह्नीकृतम्।”

ख्वाजा अकथयत् यत् सः भारतस्य विरुद्धं पूर्व-गृह-शृङ्खलायामेव सन्यासं विषये चिन्तनं प्रारब्धवानासीत्। किन्तु अन्तिमनिर्णयः तेन गतमासे एडिलेड्-टेस्ट्-प्रतियोगितायां कृतः, यदा ऑस्ट्रेलियायाः दलं एशेज्-शृङ्खलां विजित्य लब्धविजयम्। एडिलेड्-टेस्टे प्रारम्भे दलबाह्यः कृतेऽपि, स्टीव्-स्मिथ्-नामकस्य आहतत्वानन्तरं अन्तिमक्षणे तं दले समावेशितवन्तः। तस्मिन् मैच् मध्ये तस्य 82 तथा 40 रुणाः निर्णायकाः अभवन्।

कनिष्ठ-क्रिकेट्-काले वर्णभेदानुभवः

इस्लामाबाद्-नगरे जातः शैशवे सिड्नी-नगरं आगतः च ख्वाजा स्व-कनिष्ठ-क्रिकेट्-दिनान् स्मरन् अवदत् यत् तस्मिन् काले क्रिकेट् “श्वेतप्रधानं” आसीत्, तत्र च वर्णभेद-व्यवहारम् अनुभूतवान्।

सः अपि अङ्गीकृतवान् यत् राजनीतिकसामाजिक-विषयेभ्यः मुक्तकण्ठेन भाषणेन सः आलोचनानां केन्द्रे स्थितः। द्विवर्षपूर्वं आईसीसी-द्वारा तस्य जूतेषु लिखिते “Freedom is a human right” तथा “All lives are equal” इति सन्देशधर्य-प्रसङ्गः अपि चर्चितः अभवत्।

परिवर्तनस्य प्रयासः तथा भाविन्याशा

ख्वाजा क्रिकेट्-ऑस्ट्रेलियायाः Multicultural Action Plan (2023) इति योजनायाः निर्माणे महत्त्वपूर्णां भूमिकां वहितवान्। तस्य मतम्—ऑस्ट्रेलियाइयं क्रिकेट् पूर्वसमयात् श्रेष्ठतरं जातम्, किन्तु गन्तव्यं अद्यापि अवशिष्टम्।

सः अवदत्—“ऑस्ट्रेलिया बहुसांस्कृतिकदेशः। क्रिकेटे विशेषतः उपमहाद्वीपसम्बद्धानां खिलाडीनां महती सहभागिता अस्ति, किन्तु सा सर्वदा राष्ट्रीयदले प्रतिबिम्बितुं न दृश्यते। दले स्थानलाभः कठिनः एव, न कस्यापि दानरूपेण दातव्यः; तथापि क्वचिदपि बाधाः अद्यापि सन्ति। मम आशा अस्ति—अग्रिमस्य उस्मान-ख्वाजस्य मार्गः किञ्चिदधिकः सुलभः भवेत्, तथा यदा आगामिपीढीषु कस्यचित् उस्मान्-ख्वाजस्य यात्रा कस्यचित् जॉन्-स्मिथ्-इव स्वाभाविकी भविष्यति।”

क्रिकेट्-ऑस्ट्रेलियायाः समर्थनम्

क्रिकेट्-ऑस्ट्रेलियायाः मुख्यनिर्वाहणाधिकारिणा टॉड्-ग्रीनबर्ग्-नाम्ना तस्य वचनानां समर्थनं कृतम्—“एकस्य क्रीडस्य एकस्य च समाजस्य रूपेण अस्माभिः अद्यापि अधिकं कर्म कर्तव्यम्, किन्तु वयं सम्यग्दिशि गच्छामः। उस्मान् क्रिकेट्-खेलं पूर्वस्मात् श्रेष्ठतरं कर्तुं महान् योगदानं दत्तवान्।”

ग्रीनबर्गः अवदत् यत् ख्वाजस्य विरासत् केवलं क्रीडाङ्गणपर्यन्तं न सीमिता।

सः अवदत् यत्“सः अद्भुतः क्रिकेटरः आसीत्; किन्तु तस्मात् अपि महत्वपूर्णं यत् सः क्रीडाङ्गणस्य बहिः ये योगदानानि दत्तवान्, तानि अतीव गम्भीराणि सन्ति। तस्य प्रभावः आगामिकालेऽपि क्रिकेट्-क्षेत्रे अनुभविष्यते।”

सिड्नी-टेस्ट्-सहितं उस्मान्-ख्वाजा इत्यस्य अन्ताराष्ट्रिययात्रा समाप्ता भविष्यति, किन्तु क्रिकेटं अधिकसमावेशकं समतामूलकं च कर्तुं तस्य संघर्षः अग्रेऽपि निरन्तरं भविष्यतीति प्रतीक्षा।

हिन्दुस्थान समाचार