आतंकवादं वर्धकेभ्यः जलव्यवहारं न कर्तुमर्हति भारतम् - एस. जयशंकरः
चेन्नई, 02 जनवरीमासः (हि.स.)। केंद्रीयविदेशमन्त्री एस्. जयशंकर इत्यनेन पाकिस्तानदेशं प्रति कठोरैः स्पष्टैश्च शब्दैः उक्तं यत् यः देशः निरन्तरं आतंकवादं पोषयति, सः भारतेन सह जलसंसाधनानां विभाजनं याचितुं न शक्नोति। ते स्पष्टं दर्शितवन्तः यत् भारतः स्
जयशंकर


चेन्नई, 02 जनवरीमासः (हि.स.)। केंद्रीयविदेशमन्त्री एस्. जयशंकर इत्यनेन पाकिस्तानदेशं प्रति कठोरैः स्पष्टैश्च शब्दैः उक्तं यत् यः देशः निरन्तरं आतंकवादं पोषयति, सः भारतेन सह जलसंसाधनानां विभाजनं याचितुं न शक्नोति। ते स्पष्टं दर्शितवन्तः यत् भारतः स्वसुरक्ष्याः राष्ट्रियहितानां च विषये कस्यापि प्रकारेण सहमतिं न करिष्यति।

तमिलनाडु-राजधानी-चेन्नैपुरीस्थिते अन्ताराष्ट्रिय-अनुसन्धान-संस्थानस्य उद्घाटनसमारोहे भाषणं दत्त्वा विदेशमन्त्री अवदत् यत् भारतः स्व नागरिकान् आतंकवादात् रक्षितुं सर्वाणि आवश्यकानि उपायान् करिष्यति। सः अवदत् यत् विदेशनीतौ स्पष्टमेव निश्चितव्यं — कः मित्रदेशः, कः शत्रु देशः इति। भारतः आतंकवादं कस्यापि रूपेण न स्वीकर्तुं शक्नोति।

एस्. जयशंकरोऽवदत् यत् यः प्रतिवेशिदेशः निरन्तरं आतंकवादस्य समर्थनं करोति, तस्य विरुद्धं भारतस्य स्वसुरक्ष्यर्थं सर्वान् आवश्यकान् उपायान् कर्तुं पूर्णमधिकारः अस्ति। एष अधिकारः कथं कतरेण च उपयुज्यते, कदा च उपयुज्यते, इति सर्वथा भारतस्यैव सार्वभौमनिर्णयः। सः सपष्टं अवदत् यत् भारतः किं कर्तव्यम्, किं न कर्तव्यम् इति बाह्यशक्तिः काचित् न निर्णेतुं शक्नोति।विदेशमन्त्रिणा पाकिस्तानम् उद्दिश्य उक्तं यत् कोऽपि देशः एककालमेव भारतस्य अन्तरङ्गे आतंकवादं प्रसारयितुं प्रयत्नं कर्तुं न शक्नोति तथा च भारतसहितं जलसंसाधनविभाजनस्य अपेक्षां कर्तुं अपि। सः अवदत् यत् कश्चन देशः स्वेच्छया, नित्यरूपेण, निष्कम्पभावेन च आतंकवादं निरन्तरं वक्ष्यतीति निश्चयं कृतवान् इति दृश्यते।

जयशंकर अवदत् यद् वर्षान्तराणि आतंकवादस्य पोषणं कृत्वा पाकिस्तानम् “सद्-प्रतिवेशिदेशः” इति कथयितुं न शक्यते। तस्मात् सः पड़ोशीभावात् लभ्यमानं किमपि लाभं अपेक्षितुं अपि न अर्हति। भारतः स्वसुरक्षा-सार्वभौमत्व-राष्ट्रियहितरक्षणार्थं सर्वान् आवश्यकान् उपायान् सततं करिष्यति।

विदेशमन्त्रिणः एतत् वक्तव्यं भारतस्य दृढ-स्पष्ट-विदेशनीतेः संकेतत्वेन मन्यते, यस्मिन् आतंकवादविषये कापि मृदुता, कापि शैथिल्यम् अपि स्थानं न प्राप्नोति।---------------

हिन्दुस्थान समाचार