उपराष्ट्रपतिः द्वि दिनात्मिकायात्रायां प्राप्नोत् चेन्नईम्
चेन्नई, 2 जनवरीमासः(हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् द्विदिवसीय यात्रां कृत्वा शुक्रवासरादारभ्य तमिलनाडु-प्रदेशस्य भ्रमणे सन्ति। अत्र चेन्नै-विमाननिलये उपराष्ट्रपतिनः राधाकृष्णनस्य तमिलनाडु-सरकारस्य पक्षतः उपमुख्यमन्त्री उदयनिधि-स्टालिनेन
उपराष्ट्रपति सी.पी. राधाकृष्णन


चेन्नई, 2 जनवरीमासः(हि.स.)।

उपराष्ट्रपतिः सी.पी. राधाकृष्णन् द्विदिवसीय यात्रां कृत्वा शुक्रवासरादारभ्य तमिलनाडु-प्रदेशस्य भ्रमणे सन्ति। अत्र चेन्नै-विमाननिलये उपराष्ट्रपतिनः राधाकृष्णनस्य तमिलनाडु-सरकारस्य पक्षतः उपमुख्यमन्त्री उदयनिधि-स्टालिनेन पुष्पगुच्छेन पुस्तकञ्च समर्प्य स्वागतं कृतम्। उपराष्ट्रपतिनः तमिलनाडु-भारतीयजनतापक्षस्य अध्यक्षः नयनार-नागेन्द्रनापि स्वागतं कृतवान्।

उपराष्ट्रपतिः शुक्रवासरे एकस्मिन् निजी-विश्वविद्यालये आयोजिते दीक्षान्त-समारम्भे सहभागी भविष्यन्ति। ततः परं ते एकस्मिन् स्टार-होटेले भवितव्ये समारोहेमपि भागं गृह्णन्ति। राधाकृष्णन् सायंकाले चेन्नई-कला- संरक्षक-भवने आयोजिते सर्वसाधारण-स्वागत-समारोहे तथा ततः अनन्तरं लोक-भवने राज्यमहिपतेः आर.एन. रवेश्च आयोजिते नागरिक-स्वागत-कार्यक्रमे सहभागिनो भवन्ति।

पूर्वनिश्चित-कार्यक्रमानुसारम् उपराष्ट्रपति शनिवासरस्य प्रातः वेल्लोर- पोरकौविलं यास्यन्ति, तत्र शक्त्यम्मायाः पञ्चाशत्-वर्षीय-स्वर्ण-जयन्ती-समारोहेषु भागं करिष्यन्ति। तदनन्तरं मध्यान्हे चेन्नै-तिरुवल्लिकेणि-कला- संरक्षक-भवने आयोजिते सिद्ध-गण-दिवस-समारम्भेऽपि सम्मेलिष्यन्ति।

--------------

हिन्दुस्थान समाचार