उपराष्ट्रपतिः राधाकृष्णणः अद्य आरभ्य तमिलनाडु-राज्यस्य द्विदिवसीय-प्रवासाय प्रस्थितः
चेन्नई, ०२ जनवरीमास: (हि.स.)।उपराष्ट्रपतिः सी.पी.राधाकृष्णन् अद्य द्विदिवसीय-तमिलनाडु-प्रवासाय चेन्नई-नगरम् आगमिष्यति। सः राजभवने निवासं करिष्यति तथा चेन्नई-नगरे स्थितस्य एम्.जी.आर. शिक्षा-अनुसन्धान-विश्वविद्यालयस्य ३४ तमे वार्षिकोत्सव-समारोहे सहभा
उप राष्ट्रपति


चेन्नई, ०२ जनवरीमास: (हि.स.)।उपराष्ट्रपतिः सी.पी.राधाकृष्णन् अद्य द्विदिवसीय-तमिलनाडु-प्रवासाय चेन्नई-नगरम् आगमिष्यति। सः राजभवने निवासं करिष्यति तथा चेन्नई-नगरे स्थितस्य एम्.जी.आर. शिक्षा-अनुसन्धान-विश्वविद्यालयस्य ३४ तमे वार्षिकोत्सव-समारोहे सहभागं करिष्यति।

अद्य सायंकाले चेन्नई-नगरे कला-विहार-सभागृहे आयोजिते सार्वजनिक-स्वागत-समारोहे अपि सः उपस्थितः भविष्यति। अनन्तर-दिने सः वेलूर-नगरे स्थिते स्वर्ण-मन्दिरे आयोज्यमाने स्वर्ण-उत्सव-समारोहे भागं ग्रहिष्यति। ततो मध्याह्ने चेन्नई-नगरस्य तिरुवल्लिकेणी-क्षेत्रे कला-विहार-सभागृहे आयोजिते नवमे सिद्ध-दिवस-उत्सव-समारोहे अपि सः उपस्थास्यति। ततः पश्चात् सः दिल्ली-नगरं प्रति प्रस्थानं करिष्यति।

उल्लेखनीयं यत् एतस्मात् पूर्वं सः द्विदिवसीय-प्रवासाय रामेश्वरम् आगतवान् आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता