Enter your Email Address to subscribe to our newsletters

फर्रुखाबादः, ०२ जनवरीमासः (हि.स.)। फर्रुखाबाद–जनपदे महिलानां स्वावलम्बनं सुनिश्चेतुं ग्रामीण–स्वरोजगार–प्रशिक्षण–संस्थायां प्रशिक्षणं प्राप्ताभ्यः त्रयस्त्रिंशत् (३३) महिलाभ्यः जनपदाधिकारी आशुतोष–द्विवेदिना उपायुक्त–भवने आयोजिते कार्यक्रमे प्रमाणपत्राणि वितरितानि।उपायुक्त–सभागारे बैंक–ऑफ–इण्डिया–संस्थायाः तत्वावधाने सम्पन्ने अस्मिन् कार्यक्रमे जनपदाधिकारी अवदत् यत् मुख्यमन्त्री–स्वरोजगार–योजनायाः अन्तर्गतं महिलानाम् आर्थिक–स्वावलम्बनाय कृत्रिम–आभूषण–निर्माणम्, आचार–निर्माणम्, हस्तशिल्प–वस्तूनां निर्माणम् इत्यादिषु प्रशिक्षणं प्रदत्तम्। अस्य प्रशिक्षणस्य फलस्वरूपं महिलाः स्वयम् रोजगारं प्रारभ्य आत्मनिर्भराः भविष्यन्ति।तेनैव सह बैंक–ऑफ-इण्डिया–संस्थया महिलाभ्यः स्वरोजगार–आरब्धुम् ऋण–सुविधा अपि प्रदास्यते इति सूचितम्। कार्यक्रमे विभिन्नाः जनपद–स्तरीय–अधिकारिणः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता