वाराणसी : नूतनवर्षस्य समाचरणे गंगापारंगतायां सितायाः स्थितम् अवकारं नमामि गंगे स्वयंसेवकाः स्वच्छ्वकुर्वन्
—सितायां नववर्षे पॉलिथिन,कूप इत्येषां अवकरः अवर्तत । वाराणसी, 02 जनवरीमासः (हि.स.)।वाराणस्यां नगर्याः गङ्गायाः पार्श्वे रेतीस्थले आङ्ग्लनववर्षस्य प्रथमे दिने लक्षशः जनाः विहारं कृतवन्तः। भोजनपानानन्तरं तु पॉलिथिनपुटकानि, कांचबुद्बुदिकाः, भोजनसामग्
गंगा उस पार रेती पर स्वच्छता अभियान


—सितायां नववर्षे पॉलिथिन,कूप इत्येषां अवकरः अवर्तत ।

वाराणसी, 02 जनवरीमासः (हि.स.)।वाराणस्यां नगर्याः गङ्गायाः पार्श्वे रेतीस्थले आङ्ग्लनववर्षस्य प्रथमे दिने लक्षशः जनाः विहारं कृतवन्तः। भोजनपानानन्तरं तु पॉलिथिनपुटकानि, कांचबुद्बुदिकाः, भोजनसामग्रीपुटकानि अन्यानि च मलं तत्रैव त्यक्तवन्तः।

शुक्रवासरे तत्रैव प्रसृतामलिनतां निर्मार्जयितुं नमामि गङ्गे इत्यस्य संस्थायाः स्वयंसेवकाः स्वच्छताअभियानं चक्रुः। नमामि गङ्गे संस्थायाः काशिक्षेत्रसंयोजकः राजेशशुक्ल इत्यस्य नेतृत्वे कार्यकर्तारः रेतीस्थले प्रसृतान् प्लास्टिकपुटकान्, जलशून्याबुद्बुदिकाः अन्यांश्च मलिनवस्तूनि एकत्रीकृत्य सम्यक् निस्तारणं कृतवन्तः, यत् मलं गङ्गां न प्रविशेत्।

अभियानकाले तत्र व्यवसायकर्मणा संलग्नैः विक्रेतृभिः सह उक्तं यत् कूड़ेदानं अवश्यं स्थापनीयम्। राजेशशुक्लेन उक्तं यद् गङ्गा अस्माकं, गङ्गाघाटाः अपि अस्माकं, अतः तेषां स्वच्छताया अपि दायित्वम् अस्माकमेव। मातृगङ्गा अस्माकं आस्था आध्यात्मिकता आजीविका च तथा विश्वस्य निक्षेपोऽपि अस्ति।

नागरिकेभ्यः अपीलाः कृता यत् गङ्गातटस्य स्वच्छतायां सहकार्यं कुर्वन्तु। श्रमदाने आशीषशर्मा सचिन्तिवारी अजययादवः सुशान्तसिंहराजपूत मोहितकुमार इत्यादयः सहभागित्वं कृतवन्तः।

-----------------

हिन्दुस्थान समाचार