बांग्लादेशे ईश निंदा अथ अवामी लीग समर्थकस्य आरोपे निजी विश्वविद्यालयः निष्कासितवान् शिक्षकद्वयम्
ढाका, 20 जनवरीमासः (हि.स.)। बाङ्ग्लादेशदेशस्य निजीविश्वविद्यालयः यूएपी) ईशनिन्दायाः तथा अवामी लीगसमर्थनस्य आरोपानन्तरं द्वौ अध्यापकौ—असिस्टेण्ट् प्रोफेसर् लाइका बशीर् तथा एसोसिएट् प्रोफेसर् डॉ. एएस.एम्. मोहसिन्—नौकर्याः निष्कासितवान्। विश्वविद्या
लाइका बशीर और डॉ. एएसएम मोहसिन (बाएं से दाएं)।


ढाका, 20 जनवरीमासः (हि.स.)।

बाङ्ग्लादेशदेशस्य निजीविश्वविद्यालयः यूएपी) ईशनिन्दायाः तथा अवामी लीगसमर्थनस्य आरोपानन्तरं द्वौ अध्यापकौ—असिस्टेण्ट् प्रोफेसर् लाइका बशीर् तथा एसोसिएट् प्रोफेसर् डॉ. एएस.एम्. मोहसिन्—नौकर्याः निष्कासितवान्। विश्वविद्यालयस्य प्रवक्ता सादिक हसन पलाश एतस्य पुष्टिं कृतवान्। तेन उक्तं यत् उभयोः सेवाः शनिवासरात् एव समाप्ताः कृताः।

ढाका ट्रिब्यून इति समाचारपत्रस्य प्रतिवेदनानुसारं लाइका बशीर् ‘बेसिक् साइन्सेस् एण्ड् ह्यूमैनिटीज्’ विभागे कार्यरताऽसीत्, तथा डॉ. एएस.एम्. मोहसिन् अपि अस्यैव विभागस्य प्रमुखः आसीत्। उभौ अध्यापकौ स्वोपरी आरोपितानां दोषाणां खण्डनं कृतवन्तौ। तयोः कथनं यत् विश्वविद्यालयप्रबन्धनस्य एकः प्रभावशाली वर्गः एतत् सर्वं कृतवान्।

केचन छात्राः तथा अन्ये जनाः अपि आरोपं कृतवन्तः यत् एकस्य आन्दोलनस्य आडम्बरेण उभौ अध्यापकौ पदात् निष्कासितौ। अस्याः घटनायाः विषये सामाजिकमाध्यमेषु व्यापकस्तरे तीव्रा आलोचना प्रचलिता वर्तते।

हिन्दुस्थान समाचार