नितिन–नबीनः - युवा–विधायकात् भा.ज.पा.–पक्षस्य युवा–अध्यक्षत्वपर्यन्तं यात्रा
नवदेहली, २० जनवरीमासः (हि.स.)।भारतीय–जनता–पक्षस्य (भा.ज.पा.) राष्ट्रीय–अध्यक्ष–पदे निर्विरोधं निर्वाचितः पञ्चचत्वारिंशद्वर्षीयः नितिन–नबीनः अद्यावधि पक्षस्य सर्वात्यन्तं युवा–अध्यक्षः अस्ति। भा.ज.पा.केन्द्रीय–मुख्यालये प्रधानमन्त्री नरेन्द्र–मोदिन:
भाजपा के राष्ट्रीय अध्यक्ष नितिन नबीन


नवदेहली, २० जनवरीमासः (हि.स.)।भारतीय–जनता–पक्षस्य (भा.ज.पा.) राष्ट्रीय–अध्यक्ष–पदे निर्विरोधं निर्वाचितः पञ्चचत्वारिंशद्वर्षीयः नितिन–नबीनः अद्यावधि पक्षस्य सर्वात्यन्तं युवा–अध्यक्षः अस्ति। भा.ज.पा.केन्द्रीय–मुख्यालये प्रधानमन्त्री नरेन्द्र–मोदिन: उपस्थितौ अध्यक्षपदाय सम्पन्नस्य निर्वाचनस्य निर्वाचनाधिकारी डॉ.के.लक्ष्मणः मङ्गलवासरे पूर्वाह्णे ११ वादने तस्य निर्वाचनस्य आधिकारिक–घोषणां कृतवान्। प्रधानमन्त्री मोदी स्वयमेव तं “मम बॉस” इति सम्बोध्य अभिवादनं कृतवान्। सः जगत–प्रकाश–नड्डाया: स्थाने अध्यक्षः अभवत्। नितिन–नबीनः वरिष्ठ–भा.ज.पा.–नेतुः नवीन–किशोर–सिन्हाया: पुत्रः अस्ति। सः पटनानगरे स्थितात् बाँकीपुर–निर्वाचन–क्षेत्रात् पञ्चमवारं विधायकः निर्वाचितः। वर्षे २००६ तमे उपनिर्वाचने प्रथमवारं विजयम् अलभत। ततः २०१०, २०१५, २०२०, २०२५ इति विधानसभानिर्वाचनेषु निरन्तरं विजयं प्राप्तवान्। अन्तिमे निर्वाचनसमये सः राष्ट्रीय–जनता–दलस्य प्रत्याशिन्याः रेखा–कुमार्याः विरुद्धं ५१,९३६ मतान्तरैः विजयम् अलभत। गतवर्षस्य १४ दिसम्बरमासे नितिन–नबीनः पक्षस्य राष्ट्रीय–कार्यकारी–अध्यक्ष–पदे नियुक्तः आसीत्। अधुना निर्वाचनेन सः पूर्णकालिक–अध्यक्षः अभवत्। सः बिहार–विधानसभायां पञ्चवारं सदस्यः आसीत् तथा बिहार–सर्वकारे मन्त्रीपदमपि प्राप्तवान्।

पक्षस्य अन्तःसंघटने तस्य संघटन–कौशलं प्रशासन–अनुभवश्च विशेषतया प्रशंस्यते।तस्य पिता नवीन–किशोर–प्रसाद–सिन्हाया: भा.ज.पा.–पक्षस्य वरिष्ठ–नेता आसीत्। तस्य निधनानन्तरं सम्पन्ने उपनिर्वाचने जनतया तस्य पुत्रे विश्वासः कृतः। अस्मिन्नेव क्षणे नितिन–नबीनस्य राजनैतिक–यात्रा आरब्धा। ततः परं बाँकीपुर–निर्वाचन–क्षेत्रात् सः निरन्तरं विजयम् अलभत। नितिन–नबीनस्य जन्म २३ मई १९८० तमे अविभक्त–बिहारस्य राँची–नगरे (अधुना झारखण्ड–राज्ये) अभवत्। तस्य पिता पटना–पश्चिम–क्षेत्रात् चतुर्वारं विधायकः आसीत्, माता मीरा–सिन्हा आसीत्। सः पटना–स्थित–सेण्ट–माइकल–उच्चविद्यालये प्राथमिक–शिक्षां प्राप्तवान्, १९९६ तमे वर्षे सी.बी.एस.ई.–दशम–परीक्षां उत्तीर्णः अभवत्। अनन्तरं नव–देहली–स्थित–सी.एस.के.एम. विद्यालये माध्यमिक–शिक्षां प्राप्य १९९८ तमे अन्तर्विद्यालय–परीक्षाम् उत्तीर्णः। तस्य विवाहः दीपमाला–श्रीवास्तवया सह अभवत्। तयोः एकः पुत्रः, एका पुत्री च स्तः।बिहार–सर्वकारे मन्त्रीरूपेण नितिन–नबीनः पथ–निर्माण–विभागस्य, नगरीय–विकास–एवं–आवास–विभागस्य, तथा विधि–अधिनियम–विभागस्य कार्यभारं वहन् आसीत्। विशेषतया पथ–निर्माण–मन्त्रित्वे सः युवा, ऊर्जावान्, कार्यनिष्ठः नेता इति प्रसिद्धः। यद्यपि तस्य राजनैतिक–यात्रा पारिवारिक–परम्परया आरब्धा, तथापि स्वकीय–कर्मणा सः स्वतन्त्रं स्थानं निर्मितवान्।

नगर–विकासस्य नूतन–दिशाभिः क्षेत्रस्य उन्नयनाय सः सततं प्रयत्नशीलः आसीत्।मार्ग–निर्माणम्, विद्युत्–व्यवस्था, जल–आपूर्ति:, यातायात–व्यवस्था — एतेषु सर्वेषु विषयेषु तेन निरन्तरं निरीक्षणं कृतम्।

विधायकीय–जीवनेन सह पक्ष–संघटने अपि तेन महत्त्वपूर्णा भूमिका निर्वूढा। सिक्किम–छत्तीसगढ–राज्ययोः अपि तस्मै संगठनात्मक–दायित्वानि प्रदत्तानि। नितिन–नबीनः युवा–ऊर्जायाः, आधुनिक–चिन्तनस्य, सक्रिय–नेतृत्वस्य च प्रतीकः अस्ति। तस्य अध्यक्षत्वेन बिहार–भा.ज.पा.–मध्ये स्पष्टः सन्देशः दत्तः यत् यः मौनतया निष्ठया सत्यतया च संघटनस्य कार्यं करोति, तस्मिन्नेव पक्षः विश्वासं करोति।

हिन्दुस्थान समाचार / Dheeraj Maithani