Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जनवरीमासः (हि.स.)।भारतीय–जनता–पक्षेण (भा.ज.पा.) अद्य नितिन–नबीन-रूपेण नूतनः राष्ट्रिय–अध्यक्षः प्राप्तः। दीनदयाल–मार्गे स्थिते भा.ज.पा.–मुख्यालये प्रधानमन्त्री नरेन्द्र–मोदिन: उपस्थितौ राष्ट्रिय–अध्यक्ष–निर्वाचन–प्रक्रियायाः संचालनं कुर्वन् मुख्य–निर्वाचन–अधिकारी डॉ.के.लक्ष्मणः पूर्वाह्णे ११ वादने नितिन–नबीनस्य भा.ज.पा.–पक्षस्य द्वादशः अध्यक्षः निर्विरोधेन निर्वाचितः इति औपचारिकतया घोषितवान्। घोषणायाः अनन्तरं मुख्यालये उपस्थितेषु असंख्येषु कार्यकर्तृषु महत् हर्षोल्लासः जातः। ते मृदंग–वादनं कृत्वा, घोषवाक्यैः च स्वीयं हर्षं व्यक्तवन्तः।
प्रधानमन्त्री नरेन्द्र–मोदी नितिन–नबीनाय पुष्पमालां समर्प्य तम् अध्यक्ष–पदे अभिषिक्तं कृत्वा शुभाशीर्वादं यशस्वी–नेतृत्वस्य शुभकामनाः च दत्तवान्। निवर्तमानः अध्यक्षः जगत्–प्रकाश–नड्डा अपि नितिन–नबीनं अभिनन्द्य शुभेच्छाः अयच्छत्।
अस्मिन् अवसरे मञ्चे पूर्वः भा.ज.पा.–अध्यक्षः तथा केन्द्रीय–मन्त्री जे.पी.–नड्डा, केन्द्रीय–गृह–मन्त्री अमित–शाहः, केन्द्रीय–मन्त्री नितिन–गडकरी, रक्षा–मन्त्री राजनाथ–सिंहः च उपस्थिताः आसन्। ते सर्वे अपि नितिन–नबीनम् अभिनन्दितवन्तः।
स्वागत–सम्बोधनकाले जे.पी.नड्डा अवदत् यत् विश्वस्य सर्वाधिक–वृहद् राजनीतिक–पक्षः भा.ज.पा. अद्य नितिननबीनं राष्ट्रिय–अध्यक्ष–रूपेण स्वीकुर्वन् अस्ति। सः उक्तवान् यत् एष: महान् पक्ष: श्यामा–प्रसाद–मुखर्जी–महोदयस्य नेतृत्वे जनसंघ–रूपेण अग्रसरित:, पश्चात् अटल–बिहारी–वाजपेयी, लालकृष्ण–आडवाणी, कुशाभाऊ–ठाकरे इत्यादिभिः भा.ज.पा.–रूपेण सुदृढीकृत:। नड्डा अपि अवदत्— “अद्य अत्यन्तम् ऐतिहासिकः अवसरः अस्ति, यदा विश्वस्य सर्वाधिक–वृहद् राजनीतिक–पक्षः भा.ज.पा. नूतनं, ऊर्जावन्तं, प्रतिभावन्तं च नेतारं नितिन–नबीनं राष्ट्रिय–अध्यक्ष–पदे नियोजयति। नितिन–नबीनः मूलतः कार्यकर्ता अस्ति, सुदृढ–वैचारिक–पृष्ठभूम्या परिपक्वः च। सः अल्प–वयसि एव पञ्चवारं विधायकः अभवत्, अद्यापि विधायकः अस्ति। बिहार–सर्वकारे सः बहुवारं मन्त्री अपि अभवत्।
राष्ट्रीय–युवा–मोर्चायाः महासचिव–रूपेण तेन सम्पूर्ण–भारतस्य भ्रमणं कृतम्, राष्ट्रस्य गहन–अवबोधनं च प्राप्तम्। सः सिक्किम–प्रदेशस्य प्रभारी अभवत्, तथा छत्तीसगढ–प्रदेशस्य अपि प्रभारी अभवत्, यत्र तस्य महत्त्वपूर्णं योगदानम् आसीत्। एतादृशः ऊर्जावान्, प्रतिभावान् व्यक्तित्वं अद्य राष्ट्रिय–अध्यक्ष–रूपेण कार्यभारं स्वीकृतवान्।”उल्लेखनीयं यत् १६ जनवरीमासे भा.ज.पा.–पक्षस्य राष्ट्रिय–अध्यक्ष–निर्वाचन–कार्यक्रमस्य अधिसूचना प्रकाशिताऽभवत्, तस्मिन्नेव दिने निर्वाचन–सूची अपि प्रकाशिताऽभवत्। तदनुसारं १९ जनवरीमासे अपराह्णे २ वादनात् सायं ४ वादनपर्यन्तं नामाङ्कन–प्रक्रिया भा.ज.पा.–केन्द्रीय–मुख्यालये सम्पन्ना।
अध्यक्ष–पदाय केवलं कार्यकारी–अध्यक्षः नितिन–नबीनः एव नामाङ्कनं कृतवान्। आहत्य सप्तत्रिंशत् नामाङ्कन–समूहाः प्रस्तुताः, ये सर्वे नितिन–नबीनस्य समर्थनार्थमेव आसन्। परीक्षणानन्तरं सर्वे नामाङ्कन–पत्राणि नियमसम्मतानि इति प्रमाणितानि।
अध्यक्ष–निर्वाचन–प्रक्रियायाः आरम्भात् पूर्वं ३६ प्रदेशेषु ३० प्रदेश–अध्यक्षानां निर्वाचनं सम्पन्नं कृतम्, यत् न्यूनतम–आवश्यक–५० प्रतिशत–सीमायाः अधिकम् आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता