Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जनवरीमासः (हि.स.)।अद्य भारतीय-जनता-पक्षस्य (भा.ज.पा.) दायित्वं स्वीकर्तुं प्रवृत्तः नितिन-नबीनः प्रातःकाले विभिन्न-धर्म-स्थलेषु विधिवत् पूजा-अर्चनां कृतवान्। तेन सह दिल्ली-भा.ज.पा.-अध्यक्षः वीरेन्द्र-सचदेवा, दिल्ली-राज्य-सर्वकारस्य मन्त्री प्रवेश-साहिब-सिंहः तथा मनजिन्दर-सिंह-सिरसा, भा.ज.पा.-पक्षस्य राष्ट्रिय-सह-माध्यम-प्रमुखः संजय-मयूखः इत्यादयः अपि उपस्थिताः आसन्।
नितिन-नबीनः सर्वप्रथमं झण्डेवाला-स्थिते माता-झण्डेवाला-मन्दिरे पूजा-अर्चनां कृतवान्। ततः परं मन्दिर-मार्ग-स्थितं वाल्मीकि-मन्दिरं, बाबा-खडगसिंह-मार्गे स्थितं प्राचीन-हनुमान-मन्दिरं तथा गुरुद्वारा-बङ्गला-साहिबं गत्वा अपि सः पूजा-अर्चनाम् अकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता