दक्षिण-भारतीय-प्रसिद्ध-अभिनेता एम.श्रीकांतः तथा भूपाल-राजू बाबा-महाकालस्य दर्शनं कृतवन्तौ
उज्जैननगरम्, २० जनवरीमासः (हि.स.)। दक्षिण-भारतीय-चित्र-जगत: प्रसिद्ध-अभिनेता एम.श्रीकांतः तथा भूपाल-राजू प्रातःकाले ज्योतिर्लिङ्ग-भगवत: श्री-महाकालेश्वरस्य पावन-भस्म-आरार्तिक्ये सम्मिल्य दर्शन-लाभं प्राप्नवन्तौ। श्री-महाकालेश्वर-मन्दिर-प्रबन्धन-सम
Famous South Indian actors M. Srikanth and Bhupal Raju visited Baba Mahakal.


उज्जैननगरम्, २० जनवरीमासः (हि.स.)। दक्षिण-भारतीय-चित्र-जगत: प्रसिद्ध-अभिनेता एम.श्रीकांतः तथा भूपाल-राजू प्रातःकाले ज्योतिर्लिङ्ग-भगवत: श्री-महाकालेश्वरस्य पावन-भस्म-आरार्तिक्ये सम्मिल्य दर्शन-लाभं प्राप्नवन्तौ।

श्री-महाकालेश्वर-मन्दिर-प्रबन्धन-समितितः अभियन्ता शिवाकांतः पाण्डे दक्षिण-भारतीय-चित्र-जगत: प्रसिद्ध-अभिनेतृभ्याम् एम.श्रीकांताय तथा भूपाल-राजवे हार्दिकं स्वागतं सत्कारं च अकरोत्।प्रसिद्ध-अभिनेतारौ दर्शनानन्तरम् अनुभवं सहभागं कृत्वा उक्तवन्तौ यत् तौ भगवतः धामं प्रथमवारम् आगतवन्तौ स्त:, तथा अत्र आगत्य अन्यप्रकारस्य ऊर्जा-सुखानुभवं च प्राप्तवन्तौ।

हिन्दुस्थान समाचार / अंशु गुप्ता