Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जनवरीमासः (हि.स.)।भारतीय-मत्स्यपालन-क्षेत्रं वैश्विक-स्तरीयं कर्तुम् उद्दिश्य, केन्द्र-सर्वकारः बुधवासरे नव-देहल्याम् उच्च-स्तरीयं 'मत्स्यपालन-गोलमेज-सम्मेलनम् २०२६' आयोजयिष्यति। अस्य विषये मंगलवासरे मत्स्यपालन-पशुपालन-दुधारू-पालन-मन्त्रालयेन सूचना प्रदत्ता।मन्त्रालयानुसारम् अस्य सम्मेलनस्य मुख्यकेन्द्रम् अस्तिJ – “सागरीय-भोजन-निर्यात-प्रोत्साहनम्” तथा “अन्ताराष्ट्रिय-विपण-संपर्क-सुदृढीकरणम्। सम्मेलनस्य उद्देश्यं केवलं व्यापारवृद्धिमात्रं न, किन्तु एकस्य स्थिरस्य पारदर्शिनः पर्यावरणीय-तन्त्रस्य निर्माणम् अपि।
वर्तमानकाले भारतदेश: मत्स्य-उत्पादनस्य विश्वे द्वितीयस्थानं वहति, तथा सागरीय-उत्पादानां षष्ठः महत्तमः निर्यातकः। सम्मेलन-सत्रे प्रस्तुता प्रमुख-सांख्यिकी एषा क्षेत्रस्य दृढतां सूचयति। २०२४–२५ वर्षे सागरीय-भोजन-उत्पादानां निर्यातः १६.९८ लक्ष-मीट्रिक-टनं प्राप्तः, यस्य मूल्यं ६२,४०८ कोटि: रूप्यकाणि, यत् भारतस्य समग्र-कृषि-निर्याते लगभग १८% योगदानं ददाति।
कार्यक्रमस्य अध्यक्षता केन्द्रीय-मत्स्यपालन-पशुपालन-दुधारू-पालन-मन्त्री राजीव-रंजन-सिंह: ललन-सिंह: वा करिष्यति। अस्मिन् अवसरे अल्पसंख्यक-विषयाणां राज्य-मन्त्री जॉर्ज-कुरियन:, पंचायती-राज-मन्त्रालय-राज्य-मन्त्री प्रोफेसर एस.पी.सिंह-बघेल:, विदेश-मन्त्रालयस्य, मत्स्य-विभागस्य, सागरीय-उत्पाद-निर्यात-विकास-प्राधिकरणस्य, निर्यात-निरीक्षण-परिषद:, वाणिज्य-विभागस्य, विदेश-व्यापार-महानिदेशालयसृय, खाद्य-प्रसंस्करण-उद्योग-मन्त्रालयस्य, खाद्य-कृषि-संस्थानस्य, एजेंस-फ़्रांसैज़-डी-डेवलपमेंट् इत्यस्य, ड्यूश्-गेसेलशाफ्ट्-फ़ुर्-इंटरनेशनेल-ज़ुसामेनेरबीट् इत्यस्य, बे-ऑफ-बंगाल्-प्रोग्राम इत्यस्य, एशियाई-विकास-धनागारस्य तथा अन्तर्राष्ट्रीय-कृषि-विकास-कोषस्य च वरिष्ठाः अधिकारिण: अपि सम्मिलिताः स्युः।
एषां अतिरिक्तम् एशिया-अफ्रीका-यूरोप-उत्तरअमेरिका-ओशिनिया च समाविष्टाः। ८३ राष्ट्राणां राजदूताः तथा उच्चायुक्ताः अपि सम्मिलिताः सन्ति।
विभिन्न-राष्ट्रैः सह चर्चायाः मुख्य-विषयाः सन्ति – विपण-विविधकरणम्, तन्त्र-नवाचारः, नियामक-सहयोगः, निवेशः च आधारभूत-संरचना च। अस्मिन् चर्चासत्रे जलवायुं तथा विपण-समस्या: प्रति सागरीय-भोजन-मूल्य-श्रृंखलायाः शिथिलतां दृढीकर्तुं विशेषं ध्यानं प्रदत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता