Enter your Email Address to subscribe to our newsletters

धर्मशालानगरम्, २० जनवरीमासः (हि.स.)। हिमाचल–प्रदेश–विद्यालय–शिक्षा–मण्डलेन मार्च–२०२५ मासे आयोजितायाः द्वादश–कक्षायाः परीक्षायाः विज्ञान–वर्गस्य १००, कला–वाणिज्य–वर्गयोः च १००, तथा दशम–कक्षायाः ४०० मेधावी–विद्यार्थिनां कृते छात्रवृत्तेः निमित्तं अन्तर्जाल–आवेदन–प्रक्रिया आरब्धा अस्ति। अस्याः कृते योग्यता–सूची, स्वीकृति–प्रपत्रं तथा बिल–प्रपत्रं मण्डलस्य जालस्थले www.hpbose.org इत्यत्र “स्टूडेन्ट–कॉर्नर” अन्तर्गतं “स्कॉलरशिप” इति सूचिकायां उपलब्धानि कृतानि सन्ति।
मण्डलस्य अध्यक्षः डॉ. राजेश–शर्मा अवदत् यत् योग्यता–सूच्यां सम्मिलिताः परीक्षार्थिनः अन्तर्जाल–आवेदनं कृत्वा, आवेदन–प्रपत्रं तथा बिल–प्रपत्रं मण्डलस्य जालस्थलात् अवतार्य, स्व–अध्ययन–शिक्षण–संस्थायाः प्रधानाचार्येण अथवा संस्था–प्रमुखेण सत्यापयित्वा, अन्तिम–तिथेः दश–दिवसानाम् अन्तर्गतं हिमाचल–प्रदेश–विद्यालय–शिक्षा–मण्डलस्य सचिवस्य नाम्ना प्रेषयितुं शक्नुवन्ति। अन्तर्जाल–आवेदनस्य कालावधिः २१ जनवरीमासात् २० फरवरीमासं २०२६ पर्यन्तं निश्चितः अस्ति। निर्धारित–तिथेः परं प्राप्तेषु आवेदनेषु कश्चन विचारः न भविष्यति, यस्य सम्पूर्णम् उत्तरदायित्वं सम्बन्धित–परीक्षार्थिनः तथा प्रधानाचार्यस्य एव भविष्यति। अतिरिक्तं च सम्बन्धित–संस्थानां प्रधानाचार्याः एतत् सुनिश्चितं करिष्यन्ति यत् “मेरिट–कम–मीन्स”, अनुसूचित–जाति/अनुसूचित–जनजाति, तथा अन्य–पिछड़ा–वर्ग–आरक्षित–छात्रवृत्ती: विहाय, अन्येषां परीक्षार्थिनां कृते केवलम् एकस्मात् एव विभागात् अथवा संस्थातः छात्रवृत्तिः प्रदास्यते। एतस्य कृते सर्वेषां तथ्यानां परीक्षणं कृत्वा, छात्रस्य स्वीकृति–प्रपत्रं तथा बिल–प्रपत्रं सत्यापनम् अनिवार्यम्।
यदि परीक्षार्थिना मण्डल–छात्रवृत्तेः अतिरिक्तं अन्यस्मात् विभागात् अपि छात्रवृत्त्यर्थम् आवेदनं कृतम् अस्ति, तर्हि तस्य विवरणं हार्ड–कॉपी–मध्ये स्पष्टतया अङ्कनीयम्। प्राप्त्यर्थं परीक्षार्थिनः धनागारस्य तथा आधार–पत्रकस्य सत्यापिता छायाप्रति हार्ड–कॉपी–सह संयोक्तव्या भवति। पात्रतायाः आधारे द्वादश–कक्षायाः तथा दशम–कक्षायाः योग्या: मेधावी–विद्यार्थिनः एव छात्रवृत्तिं प्राप्स्यन्ति। चयन–प्रक्रिया अन्तिम–मेरिट–सूच्याः अनुसारं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता