Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 जनवरीमासः (हि.स.)।
केन्द्रीयविज्ञानप्रौद्योगिकी राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः अवदत् यत् पर्वतीयेषु हिमालयप्रदेशेषु च मार्गाणां निर्माणे मरम्मते च इस्पातस्लैगाधारितप्रौद्योगिक्याः शीघ्रं व्यापकतया स्वीकृतिः अत्यावश्यकी अस्ति। एषा प्रौद्योगिकी दीर्घकालस्थायिनी, अल्पव्यया तथा पर्यावरणानुकूलाऽपि अस्ति, किन्तु अद्यापि बहुषु राज्येषु अस्याः विषये पर्याप्ता जानकारी नास्ति।
डॉ. सिंहः मङ्गलवासरे नेशनल् मीडिया सेन्टर् इत्यत्र टेक्नोलॉजी डेवलपमेण्ट् बोर्ड् (टीडीबी) तथा विशाखापत्तनमनगरस्थितया “रामुका ग्लोबल् इको वर्क प्राइवेट् लिमिटेड्” नाम्न्या संस्थया सह सम्पन्नस्य करारस्य अवसरॆ एतानि विचाराणि व्यक्तवान्। अस्मिन् करारेण “इकोफिक्स्” इति नामकं तत्क्षणप्रयोगयोग्यं गर्तमरम्मतमिश्रणस्य व्यावसायिकं उत्पादनं भविष्यति। एषा प्रौद्योगिकी सीएसआईआर–केन्द्रीयमार्गानुसन्धानसंस्थया (सीआरआरआई) विकसिताऽस्ति।
केन्द्रीयमन्त्री सिंहः अवदत् यत् इस्पातस्लैगप्रौद्योगिक्याः प्रचारार्थं द्विदिवसीयकार्यशालानां प्रारम्भः आगामिसप्ताहे जम्मूकश्मीरप्रदेशात् क्रियते। ततः परं अन्येषु पर्वतीयेषु राज्येषु केन्द्रशासितप्रदेशेषु च अपि एतादृश्यः कार्यशालाः आयोजयिष्यन्ते। एतासां उद्देश्यं मार्गनिर्माणसम्बद्धानां अभियन्तॄणां अधिकारिणां च एतस्याः नूतनप्रौद्योगिक्याः विषये प्रशिक्षणं दातुम् अस्ति।
सः अवदत् यत् हिमालयप्रदेशेषु कार्यकालः अल्पः भवति, वर्षा अधिका भवति, मार्गाश्च पुनः पुनः क्षीणाः भवन्ति। एतादृशे परिस्थितौ एषा प्रौद्योगिकी अत्यन्तं उपयोगिनी सिद्धा भवितुं शक्नोति। “इकोफिक्स्” इत्यस्य विशेषता एषा अस्ति यत् वर्षाकाले अपि जलपूर्णेषु गर्तेषु अपि अस्य प्रयोगः कर्तुं शक्यते, येन मार्गमरम्मतिः शीघ्रं भवति तथा यातायातः अल्पकालं एव बाधितः भवति।
डॉ. सिंहः अवदत् यत् एतस्याः प्रौद्योगिक्याः परीक्षणं गतयोः द्वयोः वर्षयोः निरन्तरं क्रियते स्म। गुजरातराज्यस्य सूरत्नगरे, अरुणाचलप्रदेशे तथा उत्तरपूर्वभारतस्य अन्येषु भागेषु अस्याः सफलाः प्रयोगाः अभवन्। तदतिरिक्तं कर्नाटक, उत्तरप्रदेश, असम, झारखण्ड, आन्ध्रप्रदेश तथा गुजरात इत्यादिषु राज्येषु अपि अस्य प्रयोगः कृतः अस्ति।
विशेषज्ञानां मते इस्पातस्लैगनिर्मिताः मार्गाः अधिकदृढाः भवन्ति तथा दीर्घकालं यावत् स्थायिनः तिष्ठन्ति, येन मरम्मत्याः व्ययः न्यूनः भवति। सहैव एषा प्रौद्योगिकी इस्पातोद्योगस्य अपशिष्टस्य उपयोगं करोति, येन पर्यावरणसंरक्षणं तथा परिपत्रअर्थव्यवस्थायाः (सर्कुलर् इकोनॉमी) संवर्धनं भवति।
अस्य परियोजनायाः अन्तर्गतं प्रतिवर्षं प्रायः द्विलक्षटनपरिमाणक्षमतायुक्तस्य इस्पातस्लैगप्रसंस्करणसंयन्त्रस्य स्थापना योजनाबद्धा अस्ति, यस्य व्यावसायिकं उत्पादनं २०२७ तमस्य वर्षस्य अन्ते आरब्धुं सम्भाव्यते। अनेन स्थानीयस्तरे जीविकावसराः अपि सृज्यन्ते।
कार्यक्रमे सीएसआईआरस्य महानिदेशिका डॉ. कलैसेल्वी, टीडीबी सचिवः राजेशकुमारपाठकः तथा सीआरआरआईस्य निदेशकः सहिताः अनेके वरिष्ठाधिकारिणः उपस्थिताः आसन्।
-----------
हिन्दुस्थान समाचार