उपराष्ट्रपतिः श्वः कर्नाटकस्य तुमकुरु-नगरे सिद्धगङ्गा-मठस्य स्मरणोत्सवे सम्मिलिष्यति
शिवकुमार-महायोगिनः सप्तमः पुण्य-स्मरणोत्सवः
Vp


तुमकुरुनगरम्, २० जनवरीमासः (हि.स.)। कर्नाटक-राज्यस्य तुमकुरु-नगरे स्थितस्य सिद्धगङ्गा-मठस्य शिवैक्य-शिवकुमार-महायोगिनः लिङ्गैक्यस्य सप्तमे वर्षे सम्पन्ने सति आयोज्यमाने पुण्य-स्मरणोत्सव-कार्यक्रमे भारतस्य उपराष्ट्रपतिः सी.पी.राधाकृष्णनः सम्मिलिष्यति। तदर्थं सिद्धगङ्गा-मठे व्यापकाः सज्जताः क्रियन्ते। उपराष्ट्रपतेः कार्यक्रमं दृष्ट्वा प्रशासनेन मठस्य परिसरे समीपवर्तिषु क्षेत्रेषु च दृढा सुरक्षाव्यवस्था कृता। सिद्धगङ्गा-शिक्षा-संस्थायाः सचिवः टी.के.नञ्जुण्डप्पः मङ्गलवासरे अवदत् यत् सिद्धगङ्गा-मठे आयोज्यमाने सप्तमे पुण्य-स्मरणोत्सवे भागं ग्रहीतुं उपराष्ट्रपतिः सी.पी.राधाकृष्णनः बुधवासरे अत्र आगमिष्यति।

उपराष्ट्रपतिः श्वः प्रातः १०:५० वादने सिद्धगङ्गा-मठं प्राप्स्यति। सः सर्वप्रथमं शिवकुमार-महायोगिनः पीठे पूजार्चनां करिष्यति। ततः प्रातः ११ वादने गोसल-सिद्धेश्वर-मञ्चे आयोज्यमाने कार्यक्रमे भागं ग्रहीष्यति। उपराष्ट्रपतिना सह कर्नाटक-राज्यपालः थावरचन्द-गहलोतः तथा केन्द्रीय-मन्त्री वी.सोमन्ना अपि उपस्थितौ भविष्यत:।

अस्मिन् कार्यक्रमे सिद्धगङ्गा-मठस्य अध्यक्षः सिद्धलिङ्ग-स्वामी, सद्गुरुः मधुसूदन-साईं तथा सिद्धगङ्गा-मठस्य उत्तराधिकारी शिवसिद्धेश्वर-स्वामी च सान्निध्यं करिष्यन्ति। संस्थायाः सचिवः टी.के.नञ्जुण्डप्पः अपि अवदत् यत् श्वः प्रातः ५ वादने एव मठे विविधानि धार्मिक-अनुष्ठानानि पूजाकार्याणि च आरभ्स्यन्ते। शिवकुमार-महायोगिनः पीठे मन्त्रोच्चारणेन सह विशेष-पूजा सम्पत्स्यते।

प्रातः ८ वादने रुद्राक्ष-मण्डपे शिवकुमार-महायोगिनः प्रतिमायाः भव्य-शोभायात्रा आयोजयिष्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani