Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 20 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे एकेन प्रेरणादायिना संस्कृतश्लोकेन जीवनस्य सीमितं कालं, ज्ञानस्य विशालतां तथा नानाविधानि विघ्नानि मध्ये सारतत्त्वस्य ग्रहणस्य शिक्षां दत्तवान्। प्रधानमन्त्री नरेन्द्रमोदीः ‘एक्स्’ इति सामाजिकमाध्यमे श्लोकं प्रकाशितवान्—
अनन्तशास्त्रं बहुलाश्च विद्याः
अल्पश्च कालो बहुविघ्नता च।
यत्सारभूतं तदुपासनीयं
हंसो यथा क्षीरमिवाम्बुमध्यात्॥
अस्य श्लोकस्य भावार्थः एषः यत् शास्त्राणि अनन्तानि सन्ति, विद्याः अपि बह्व्यः, किन्तु मनुष्यस्य कालः अल्पः अस्ति तथा विघ्नानि अपि नानाविधानि भवन्ति। अतः यत् सारभूतं, यत् अत्यन्तं महत्त्वपूर्णं उपयोगकरं च, तदेव उपासनीयं ग्राह्यं च। यथा हंसः जलमध्ये स्थितः सन् केवलं क्षीरमेव विविच्य गृह्णाति, अन्यत् परित्यजति, तथैव मनुष्येण विवेकपूर्वकं सारस्यैव ग्रहणं कर्तव्यम्।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः अयं सन्देशः न केवलं छात्राणां युवानां च कृते, अपि तु समाजस्य सर्वेषां वर्गाणां कृते अपि प्रेरणादायकः मन्यते। अयं श्लोकः आधुनिकजीवनस्य आपाधापीमध्ये सम्यग् निर्णयग्रहणस्य, ज्ञानस्य उपयोगीमार्गे नियोजनस्य, अनावश्यकभ्रमणस्य च परित्यागस्य शिक्षां ददाति।
---------------
हिन्दुस्थान समाचार