राष्ट्रीय–नगर–स्वास्थ्य–अभियानान्तर्गतम् उन्मुखीकरण–कार्यशाला सम्पन्ना
रायगढनगरम्, २० जनवरीमासः (हि.स.)। नगरीय–क्षेत्रेषु स्वास्थ्य–सेवानां सुदृढीकरणाय तथा योजनानां प्रभावी–क्रियान्वयनाय अद्य मङ्गलवासरे नगर–निगम–स्वास्थ्य–विभागयोः समन्वयार्थम् उन्मुखीकरण–कार्यशाला आयोजिता। रायगढ–नगर–निगमस्य सभाकक्षे आयोजितायाः कार्यशा
स्वच्छ भारत मिशन पर बैठक


रायगढनगरम्, २० जनवरीमासः (हि.स.)। नगरीय–क्षेत्रेषु स्वास्थ्य–सेवानां सुदृढीकरणाय तथा योजनानां प्रभावी–क्रियान्वयनाय अद्य मङ्गलवासरे नगर–निगम–स्वास्थ्य–विभागयोः समन्वयार्थम् उन्मुखीकरण–कार्यशाला आयोजिता। रायगढ–नगर–निगमस्य सभाकक्षे आयोजितायाः कार्यशालायाः शुभारम्भः महापौरः जीवर्धन–चौहानः, सभापतिः डिग्रीलाल–साहूः तथा उपस्थितैः जनप्रतिनिधिभिः दीप–प्रज्वलनं कृत्वा कृतः।

अस्मिन् अवसरे महापौरः जीवर्धनचौहानः अवदत् यत् स्वच्छं, सुन्दरम्, आरोग्यपूर्णं नगरं निर्मातुं सर्वेषां सहयोगः अत्यन्तं आवश्यकः। सामूहिक–प्रयत्नैः रायगढ–नगरे डेंगू–रोग–नियन्त्रणे सफलता प्राप्ता अस्ति। सः स्वच्छता–स्वास्थ्य–जनजागरूकताभिः माध्यमैः रायगढं स्वच्छं, सुन्दरम्, आरोग्यपूर्णं नगरं कर्तुं निरन्तर–सहयोगाय आह्वानं कृतवान् तथा मितानिनीनां भूमिकां प्रशंसितवान्। सभापतिः डिग्रीलाल–साह जनप्रतिनिधीन: नगरीय–स्वास्थ्य–कार्यक्रमाणां प्रभावी–क्रियान्वयने सक्रिय–सहयोगाय आह्वानं कृतवान्। आयुक्तः बृजेश–सिंह–क्षत्रियः अवदत् यत् नगर–निगम–जनप्रतिनिधीनां माध्यमेन जनतां प्रति सम्पर्कस्य सशक्तं साधनम् अस्ति। यस्मिन् स्तरे स्वास्थ्य–विभागाय नगर–निगमस्य सहयोगः आवश्यकः भविष्यति, तस्मिन् सर्वः निगमः समन्वयेन सह तत्परः भविष्यति। सः अवदत् यत् जनप्रतिनिधिभिः सह कार्यं कुर्वन् योजनानां क्रियान्वयनं सुलभं भवति, तथा डेंगू–नियन्त्रणे प्राप्ता सफलता सामुदायिक–समन्वयस्य प्रत्यक्षम् उदाहरणम् अस्ति।

कार्यशालायां मुख्य–चिकित्सा–स्वास्थ्य–अधिकारी डॉ.अनिल–कुमार–जगतः नगरीय–स्वास्थ्य–योजनानां विस्तृतां सूचनां दत्तवान्। सः अवदत् यत् जनपदे आयुष्मान–भारत–योजनान्तर्गतं पत्रक–आवरणं ९४.८ प्रतिशतं, नगरीय–क्षेत्रेषु ९४.१ प्रतिशतं च अस्ति। शेषाः पात्र–लाभग्राहिणः शीघ्रमेव योजनया संयोजयिष्यन्ते। सः अवदत् यत् योजनान्तर्गतं बी.पी.एल.लाभग्राहिभ्यः उच्चस्तरीया चिकित्सा–सेवा प्रदीयते, अपि च ए.पी.एल. लाभग्राहिभ्यः अपि निश्चित–सीमापर्यन्तं उपचार–लाभस्य व्यवस्था अस्ति। तथा च ७० वर्षात् अधिक–वयसः वरिष्ठ–नागरिकेभ्यः “वय–वन्दना–पत्रक” अन्तर्गतम् उपचार–सेवा उपलब्धा क्रियते। मातृ–स्वास्थ्य–योजनानाम् अन्तर्गतं गर्भावस्था–पञ्जीकरणं तथा संस्थागत–प्रसवः प्रोत्साहितः क्रियते।

हिन्दुस्थान समाचार / अंशु गुप्ता