Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जनवरीमासः (हि.स.)।अद्य भारतीय-जनता-पक्षस्य (भा.ज.पा.) नूतनः राष्ट्रिय-अध्यक्षः प्राप्स्यते। नितिन-नबीनस्य नाम्नः औपचारिकी घोषणा अपराह्णे १.३० वादनपर्यन्तं करिष्यते इति सूचितम्। भा.ज.पा.-मुख्यालये प्रातःकालादेव विभिन्न-राज्यानां मुख्यमन्त्रिणां नेतॄणां च आगमन-क्रमः आरब्धः अस्ति। अध्यक्षः जे.पी.नड्डा, नितिन-गडकरी, राजनाथ-सिंहः, योगी-आदित्यनाथः, मोहन-यादवः इत्यादयः अनेके नेतारः पक्ष-मुख्यालयं प्राप्तवन्तः। नितिन-नबीनः अपि मुख्यालये उपस्थितः अस्ति। अस्मिन् समारोहे प्रधानमन्त्री नरेन्द्र-मोदी अपि उपस्थितः भविष्यति।
सोमवासरे नितिन-नबीनः राष्ट्रिय-अध्यक्ष-पदे निर्विरोधेन चयनितः। तस्य विरुद्धं अन्यः कश्चन प्रत्याशी नामाङ्कनं न कृतवान्। नामाङ्कन-प्रक्रियायां प्रधानमन्त्री नरेन्द्र-मोदी, गृह-मन्त्री अमित-शाहः, रक्षा-मन्त्री राजनाथ-सिंहः इत्येतै: सह ३७ वरिष्ठ-नेतारः तस्य समर्थनार्थं प्रस्तावं प्रस्तुतवन्तः।
नितिन-नबीनः बिहार-राज्यस्य वरिष्ठः भा.ज.पा.-नेता अस्ति। सः बाँकीपुर-विधानसभा-क्षेत्रात् बहुवारं विधायकः अभवत्। संघटनस्य तथा सर्वकारस्य उभय-स्तरेषु तस्यानुभवं दृष्ट्वा पक्ष-नेतृत्वेन तस्मै एतत् महत्त्वपूर्णं दायित्वं समर्पितम्। अपेक्ष्यते यत् तस्य नेतृत्वे भा.ज.पा.-संघटनम् अधिकं सुदृढं भविष्यति, तथा अग्रिम-विधानसभा-निर्वाचनस्य भविष्यस्य राष्ट्रिय-राजनीत्याः कृते अपि रणनीतिः निर्मीयते।
हिन्दुस्थान समाचार / अंशु गुप्ता