Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, २० जनवरीमासः (हि.स.)। अद्य मङ्गलवासरे जगदलपुर-नगरे स्थितस्य टाउन-हॉल-इत्यस्य समक्षम् आयोजिते एकस्मिन् कार्यक्रमे ८७ तीर्थयात्रिणां समूहः प्रभु-श्रीरामस्य दर्शनार्थम् अयोध्या-धामं प्रति प्रस्थितः। बसयानस्य प्रस्थानात् पूर्वं तत्र वातावरणं पूर्णतया राममयं जातम्। “जय-श्रीराम” इति जयकार-नादैः सह प्रस्थितानां श्रद्धालूनां मुखेषु रामललायाः दर्शनाय उत्कण्ठा स्पष्टतया दृश्यते स्म।
अस्मिन् अवसरे महापौरः सञ्जय–पाण्डेयः, नगर-निगम-सभापतिः खेम–सिंह–देवाङ्गनः तथा अन्ये जनप्रतिनिधयः उपस्थिताः सन्तः तीर्थयात्रिणाम् उत्साहवर्धनम् अकुर्वन्। अतिथयः सर्वेभ्यः यात्रिभ्यः पुष्पाणि समर्प्य, मङ्गलमय-यात्रायाः शुभाशया: दत्त्वा, हरित-ध्वजं दर्शयित्वा बसयानं प्रस्थितुं प्रावर्तयन्। एषा यात्रा श्रीरामलला-दर्शन-योजना-समितेः सदस्येन रामाश्रय–सिंहेन तथा अन्यैः वरिष्ठ-अधिकारिभिः मार्गदर्शिता आयोजिताभवत्। कार्यक्रमे च जनपद-पञ्चायतस्य अतिरिक्त-मुख्य-कार्यपालन-अधिकारी, योजनायाः नोडल-अधिकारी वीरेंद्र–बहादुरः, तथा जिला-पञ्चायत-कार्यालयस्य अन्ये अधिकारिण: कर्मकराश्च उपस्थिताः आसन्।
बस्तर-जनपदे गतवर्षात् आरभ्य अद्यावधि एतस्यां योजनायाम् आहत्य १०४२ श्रद्धालवः लाभं प्राप्य अयोध्या-धामस्य तीर्थयात्रां सम्पन्नवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता