Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जनवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र–मोदी मङ्गलवासरे भारतीय–जनता–पक्षस्य (भा.ज.पा.) नवनिर्वाचितं राष्ट्रिय–अध्यक्षं नितिन–नवीनम् अभिनन्दन् स्वं पक्षस्य कार्यकर्ता इति अवदत्। सः अवदत् यत् यदा पक्षसम्बद्धा: विषयाः भवन्ति, तदा नितिन–नवीनः तस्य “बॉस” अस्ति।
दिल्ली-नगरे स्थिते भा.ज.पा.–केन्द्रीय–मुख्यालये आयोजितेऽस्मिन् समाराेहे नितिन–नवीनः पक्षाध्यक्ष–पदस्य कार्यभारं स्वीकृतवान्। अस्मिन् अवसरे प्रधानमन्त्री मोदी, केन्द्रीय–गृहमन्त्री अमित–शाहः, निवर्तमान–अध्यक्षः जे.पी.नड्डा, रक्षा–मन्त्री राजनाथ–सिंहः तथा पक्षस्य वरिष्ठ–नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।
पक्षकार्यकर्तॄन् सम्बोधयन् प्रधानमन्त्री अवदत्— “अहं भारतीय–जनता–पक्षस्य कार्यकर्ता अस्मि, एष एव मम महत्तमः गर्वः। यदा पक्षस्य विषयः भवति, तदा नितिन–नवीनः मम बॉस अस्ति।” सः अवदत् यत् भा.ज.पा.–पक्षे पदानि परिवर्तन्ते, किन्तु आदर्शाः न परिवर्तन्ते; नेतृत्वं परिवर्तते, किन्तु दिक् न परिवर्तते।भा.ज.पा. एकं कुटुम्बम् अस्ति, यत्र सदस्यताया: अपेक्षया सम्बन्धानां महत्त्वम् अधिकम्। प्रधानमन्त्रिणाऽपि उक्तं यत् नितिन–नवीनस्य उत्तरदायित्वं केवलं भा.ज.पा.–पर्यन्तं न सीमितम्, अपि तु राष्ट्रिय–जनतान्त्रिक–गठबन्धनस्य (एन.डी.ए.) सर्वैः सह समन्वयं स्थापयितुं अपि तस्य महत्त्वपूर्णं कर्तव्यम् अस्ति। युवा–ऊर्जया सह अनुभवस्य संयोगेन सः पक्षस्य परम्पराम् अग्रे नेष्यति इति सः विश्वासं व्यक्तवान्।
सङ्घटन–पर्वण: उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत् पक्ष–संविधानस्य भावनानुसारं शतप्रतिशतं लोकतान्त्रिक–प्रक्रियया एतत् निर्वाचनं सम्पन्नम्। एषा प्रक्रिया भा.ज.पा.–पक्षस्य लोकतान्त्रिक–आस्थायाः, संगठनात्मक–अनुशासनस्य, कार्यकर्ता–केन्द्रित–चिन्तनस्य च प्रतीकरूपा अस्ति। देशव्यापिनः कार्यकर्तॄन् सः अस्य सफलतायै अभिनन्दितवान्। मोदी अवदत् यत् भा.ज.पा. केवलं पक्षः न, अपि तु संस्कारः अस्ति। अत्र पदभारः व्यवस्था अस्ति, किन्तु कार्यभारः आजीवन–उत्तरदायित्वम्। अटल–बिहारी–वाजपेयी, लालकृष्ण–आडवाणी, मुरली–मनोहर–जोशी, वेंकैया–नायडू, नितिन–गडकरी, राजनाथ–सिंह:, अमित–शाह:, जे.पी. नड्डा— एतेषां सर्वेषां पूर्व–अध्यक्षाणां योगदानं स्मृत्वा सः तान् अभिनन्दितवान्।स्वकीय–राजनैतिक–यात्रायाः उल्लेखं कुर्वन् सः अवदत् यत् त्रिवारं प्रधानमन्त्री–पदप्राप्तिः, पञ्चविंशति–वर्षपर्यन्तं शासन–नेतृत्वं महत्त्वपूर्णम्, किन्तु तस्मादपि महत्तरः गर्वः— “अहं भा.ज.पा.–कार्यकर्ता अस्मि।” सः अवदत् यत् नितिन–नवीनः तस्य वंशस्य प्रतिनिधिः अस्ति, या वेतारयन्त्र–युगात् आरभ्य कृत्रिम–बुद्धिमत्ता–युगं यावत् अनुभूतवान्। तस्मिन् युवा–ऊर्जा अस्ति, अनुभवश्च अस्ति।
मोदी अवदत् यत् एकविंशतितमे शतके भारतस्य अग्रिम-पञ्चविंशतिवर्षाणि अत्यन्तं महत्त्वपूर्णानि सन्ति। एष: एव कालखण्डः विकसित–भारत–निर्माणस्य।अस्य प्रारम्भे नितिन–नवीनः भा.ज.पा.–परम्पराम् अग्रे नेष्यति। भा.ज.पा.–पक्षस्य निर्वाचन–सफलतायाः उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत् दीर्घकालं सत्तायां स्थातुं सामान्यतः कठिनं भवति, किन्तु भा.ज.पा. एतां धारणां भञ्जयित्वा गुजरात–महाराष्ट्र–मध्यप्रदेश–बिहार–राज्येषु प्राय: बहुमतेन विजयम् अलभत।
सः अवदत् यत् भा.ज.पा. सत्तां सुखस्य न, सेवायाः साधनं अकरोत्। अतः जनविश्वासः निरन्तरं दृढः अभवत्। गत–११–वर्षेषु हरियाणा–असम–त्रिपुरा–ओडिशा–राज्येषु पक्षेण प्रथमवारं स्वबलात् शासनं कृतम्।पश्चिमबङ्गाल–तेलङ्गाना–राज्ययोः अपि भा.ज.पा. महत्त्वपूर्णा राजनैतिक–शक्ति: अभवत्। स्थानीय–निकायेषु पक्षस्य सुदृढतां वर्णयन् सः अवदत् यत् महाराष्ट्रे २९ मध्ये २५ महानगराणि भा.ज.पा.–एन.डी.ए.–समर्थनं प्राप्तवन्ति, केरले च प्राय: १०० पार्षदाः भा.ज.पा.–सम्बद्धाः सन्ति, तिरुवनन्तपुरे च ४५ वर्षानन्तरं मेयर–पदे भा.ज.पा.–विजयः अभवत्। सर्वकार–योजनानाम् उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत् पी.एम.–जनमन–योजनया आदिवासी–समाजस्य अत्यन्त–पृष्ठवर्गेभ्यः साहाय्यं दत्तम्, उज्ज्वला–योजनया भगिनीभ्यः धूम–मुक्तिः, लक्षपति–दीदी–अभियानेन ग्रामीण–महिलानाम् आत्मनिर्भरता, जल–जीवन–अभियानेन कोटिशः गृहेषु नल–जल–प्राप्तिः अभवत्।
सः अवदत् यत् भा.ज.पा. सामाजिक–न्यायं केवलं घोषणायां न, अपि तु भूमौ साक्षात् अकारयत्। गरीब–कल्याण–योजनाः सञ्चिकाभ्यः निर्गत्य सरलन निर्धनानां गृहेषु प्राप्ताः। अन्यायरीत्या प्रवेश: देशाय महती समस्या इति वर्णयन् मोदी अवदत् यत् कोऽपि देशः अन्यायरीत्याप्रविष्टान् न स्वीकरोति, भारतदेश: अपि स्वस्य दरिद्राणां यूनां च अधिकारान् न त्यक्ष्यति। यः कोऽपि पक्षः मत–बैंक–राजनीत्या अन्यायरीत्या प्रवेशं रक्षति, सः जनसमक्षम् उद्घाटनीयः। कांग्रेस–पक्षं लक्ष्यीकृत्य सः अवदत् यत् कांग्रेसः स्वपतनस्य समीक्षा न करोति, यतः तेन एकस्य परिवारस्य विषये प्रश्नाः उत्पद्येरन्। भा.ज.पा.–कार्यकर्तॄन् सः कांग्रेसस्य त्रुटीनां पुनरावृत्तिं न कर्तुम् आह्वानं कृतवान्। अन्ते प्रधानमन्त्री नितिन–नवीनं पुनः शुभाशयैः अभिनन्द्य अवदत्— “स्वतः महत्तरः पक्षः, पक्षात् महत्तरं राष्ट्रम्” एष: एव भा.ज.पा.–कार्यकर्तॄणां जीवन–मन्त्रः।
हिन्दुस्थान समाचार / अंशु गुप्ता