Enter your Email Address to subscribe to our newsletters

जयपुरम्, 20 जनवरीमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवत् त्रिदिवसीयप्रवासाय श्वः अर्थात् बुधवासरे राजस्थानप्रदेशं आगमिष्यति।
राष्ट्रियस्वयंसेवकसंघस्य राजस्थानक्षेत्रस्य संघचालकः डॉ. रमेशअग्रवालः अवदत् यत् डॉ. भागवत् बुधवासरे विमानमार्गेण जयपुरनगरं आगमिष्यति। ततः सः किशनगढ़नगरे रात्रिविश्रामं करिष्यति।
अग्रे दिने द्वाविंशतितमे जनवरीमासे सः नागौरजनपदे स्थिते छोटीखाटू-नगरॆ आयोजिते मर्यादामहोत्सवे जैनसन्तेन आचार्यमहाश्रमणेन सह सहभागं करिष्यति। कार्यक्रमानन्तरं सः पुनः जयपुरनगरं प्रत्यागमिष्यति तथा रात्रिविश्रामं जयपुरे करिष्यति।
त्रयोविंशतितमे जनवरीमासे प्रातःकाले डॉ. भागवत् विमानमार्गेण जयपुरनगरात् प्रस्थानं करिष्यति।
---------------
हिन्दुस्थान समाचार