तमिलनाडु-विधानसभायाः सत्रम् अद्य आरभ्यते
चेन्नईनगरम्, २० जनवरीमासः (हि.स.)। तमिलनाडु-विधानसभायाः अस्य वर्षस्य प्रथमं सत्रम् अद्य प्रातः ९.३० वादने आरभ्यते। अद्य आयोजितायां प्रथमायां सभायां राज्यपालः आर.एन.रवि:अभिभाषणं करिष्यति। विधानसभां प्रति आगम्यमानस्य राज्यपालस्य परम्परागत-रीत्या स्वा
File picture


चेन्नईनगरम्, २० जनवरीमासः (हि.स.)। तमिलनाडु-विधानसभायाः अस्य वर्षस्य प्रथमं सत्रम् अद्य प्रातः ९.३० वादने आरभ्यते। अद्य आयोजितायां प्रथमायां सभायां राज्यपालः आर.एन.रवि:अभिभाषणं करिष्यति। विधानसभां प्रति आगम्यमानस्य राज्यपालस्य परम्परागत-रीत्या स्वागतं करिष्यते। विधानसभा-अध्यक्षः अप्पावु: तथा विधानसभा-प्रधान-सचिवः श्रीनिवासनः राज्यपालं सदनस्य अन्तः प्रवेशयिष्यन्ति।

राज्यपालः अध्यक्ष-आसने उपवेशयिष्यते,तस्य समीपे स्थिते आसने विधानसभा-अध्यक्षः उपवेक्ष्यति। पूर्ववर्षयोः स्थितिः २०२४ तथा २०२५ वर्षयोः राज्यपालः आर.एन.रविः अभिभाषण-पाठात् पराङ्मुखः अभवत्। तस्य कारणं सः एतत् उक्तवान् यत्— तस्य अपेक्षानुसारं सदन-कार्यवाह्याः आरम्भे राष्ट्रगानस्य वादनं न कृतम्। यदि अद्य अपि राज्यपालस्य राष्ट्रगान-वादन-संबन्धिनी याचना न स्वीक्रियते, तर्हि सः अभिभाषणं कृत्वा अपठित्वा वा निवर्तिष्यते— इति विषयः अद्यापि अस्पष्टः अस्ति।

अद्यतन कार्यवाह्या: क्रम:

प्रथमं “तमिल्-ताई-वाज़्थु” (तमिल-मातरः वन्दना) गास्यते। ततः राज्यपालः आङ्ग्ल भाषायाम् अभिभाषणं करिष्यति। तस्य अभिभाषणस्य तमिल-भाषानुवादं विधानसभा-अध्यक्षः पठिष्यति। यदि राज्यपालः अभिभाषणम् अकृत्वा एव निवर्तिष्यते, तर्हि विधानसभा-अध्यक्षः एव तत् अभिभाषणं सम्पूर्णतया पठिष्यति। तदनन्तरं राष्ट्रगानस्य वादनं भविष्यति, एवं अद्यतन-सदन-कार्यवाही समाप्ता भविष्यति।

अग्रिमा कार्यसूची

तदनन्तरं विधानसभा-अध्यक्षस्य कक्षे कार्य-सलाहकार-समितेः सभा भविष्यति,यत्र एतत् सत्रं कति दिनानि चलिष्यति इति निर्णयः भविष्यति। सूचनानुसारं २१ जनवरी दिने दिवंगत-विधायकस्य पोन्नुसामिन: श्रद्धाञ्जलि-प्रस्तावः पारितः भविष्यति, तस्मिन् दिने सदन-कार्यवाही स्थगिता भविष्यति। २२ जनवरी दिने राज्यपालस्य अभिभाषणाय धन्यवाद-प्रस्तावः प्रस्तुतः भविष्यति, यस्मिन् विधायकाः चर्चां करिष्यन्ति। अस्य प्रस्तावस्य उत्तरं मुख्यमन्त्री एम.के.स्टालिनः २४ जनवरी दिने सत्रस्य अन्तिमदिने दास्यति— इति ज्ञायते।

राजनैतिकं महत्त्वम्

विधानसभा-निर्वाचनस्य समीपत्वात् एतत् सत्रम् अत्यन्तं महत्त्वपूर्णं मन्यते। एआईएडीएमके तथा भाजपा इत्यादयः पक्षाः सत्तारूढ-दलस्य राज्य-शासनस्य च विरुद्धं आरोप-सूचीं प्रस्तोष्यन्ति। तस्य उत्तरार्थं मुख्यमन्त्री एम.के. स्टालिनः अन्ये च मन्त्रिणः सर्वकार-पक्षस्य प्रतिनिधयः पूर्णतया सज्जाः सन्ति। अतः अस्मिन् विधानसभासत्रे राजनीतिक-चर्चायाःअभावः न भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता