पक्षः नूतनतया ऊर्जसा दिशं दास्यति नितिन नबीनः - आदित्यनाथः
नव दिल्ली, 20 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः अत्र भारतीयजनतापक्षस्य नवनिर्वाचितं राष्ट्रियाध्यक्षं नितिननबीनं समागत्य तं अभिनन्दितवान् तथा तस्य उज्ज्वलभविष्याय शुभाशयाः व्यक्तवान्। मुख्यमन्त्री मङ्गलवासरे भारतीयजनत
मुख्यमंत्री योगी


नव दिल्ली, 20 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः अत्र भारतीयजनतापक्षस्य नवनिर्वाचितं राष्ट्रियाध्यक्षं नितिननबीनं समागत्य तं अभिनन्दितवान् तथा तस्य उज्ज्वलभविष्याय शुभाशयाः व्यक्तवान्।

मुख्यमन्त्री मङ्गलवासरे भारतीयजनतापक्षस्य केन्द्रीयमुख्यालये नवनिर्वाचितं राष्ट्रियाध्यक्षं नितिननबीनं पुष्पगुच्छं समर्प्य शुभकामनाः दत्तवान्। आदित्यनाथः अवदत्— “भवतः कुशलनेतृत्वेन, संगठनात्मकानुभवेन, दूरदर्शितया च पक्षः नूतनां ऊर्जां दिशां च प्राप्स्यति, तथा लोकतान्त्रिकमूल्यानां अधिका सुदृढता भविष्यति।” मुख्यमन्त्री आशां व्यक्तवान् यत् उत्तरप्रदेशाय अपि भवतः निरन्तरं मार्गदर्शनं लभ्यते एव।

मुख्यमन्त्री एक्स् इति माध्यमे लिखितवान् यत्— पूर्णः विश्वासः अस्ति यत् प्रधानमन्त्री नरेन्द्रमोदीमहाशयस्य मार्गदर्शने भवतः अन्त्योदयमार्गे अग्रसरन् स्वीयनिष्ठया समर्पणेन च संगठनं नूतनशिखराणि नयिष्यति तथा सर्वेषु कर्मठकार्यकर्तृषु “राष्ट्रं प्रथमम्” इति भावं अधिकं सुदृढं करिष्यति। भवतः उज्ज्वलकार्यकालाय अनन्ताः शुभकामनाः।

-------------

हिन्दुस्थान समाचार