मुख्यमंत्री योगी वर्धितवान् धानक्रयणं लक्ष्यं, कृषकेभ्यो लब्धं लक्ष्यम्
मीरजापुरम्, 20 जनवरीमासः (हि.स.)। कृषकाणां हिताय उत्तरप्रदेशसरकारेण एकः महत्त्वपूर्णः निर्णयः गृहीतः अस्ति। तस्मिन् निर्णयेन धान्यक्रयकेन्द्राणां लक्ष्यवृद्धये अनुमोदनं दत्तम्। मुख्यमंत्री योगी आदित्यनाथेन मीरजापुरजनपदस्य कृते सप्तत्रिंशत्सहस्रं म
मुख्यमंत्री से मिलते विधायक रमाशंकर सिंह पटेल।


मीरजापुरम्, 20 जनवरीमासः (हि.स.)।

कृषकाणां हिताय उत्तरप्रदेशसरकारेण एकः महत्त्वपूर्णः निर्णयः गृहीतः अस्ति। तस्मिन् निर्णयेन धान्यक्रयकेन्द्राणां लक्ष्यवृद्धये अनुमोदनं दत्तम्। मुख्यमंत्री योगी आदित्यनाथेन मीरजापुरजनपदस्य कृते सप्तत्रिंशत्सहस्रं मीट्रिक् टनपरिमितं अतिरिक्तधान्यक्रयलक्ष्यं वर्धयितुं निर्देशाः दत्ताः। एषः निर्णयः पूर्वमन्त्रीणः मड़िहानविधानसभाक्षेत्रस्य विधायकस्य रमाशंकरसिंहपटेलस्य विशेषानुरोधस्य निरन्तरप्रयत्नानां च परिणामः इति कथ्यते।

विधायकः रमाशंकरसिंहपटेलः एकोनविंशतितमे जनवरीमासे लखनऊनगरे स्थिते मुख्यमंत्रीनिवासे मुख्यमंत्रीना सह साक्षात्कृत्य मड़िहानविधानसभासहितं जनपदस्य किसानानां समस्याः अवगतवान्। सः अवदत् यत् शासननिर्धारितलक्ष्यानुसारं बहुलं धान्यं क्रीतम् अस्ति तथापि अद्यापि केचन कृषकाः सन्ति येषां धान्यं न क्रीतम्। अनेन कारणेन किसानानां मध्ये चिन्तायाः वातावरणं जातं अस्ति ते च धान्यक्रयावधिवृद्धिं लक्ष्यवृद्धिं च याचन्ते।

मुख्यमंत्री योगी आदित्यनाथः किसानानां कष्टं गम्भीरतया स्वीकरोति तत्क्षणमेव लक्ष्यवृद्धये आदेशान् दत्तवान्। विधायकः रमाशंकरसिंहपटेलः मङ्गलवासरे अवदत् यत् शासनस्य अभिप्रायः अस्ति यत् कस्यापि किसानस्य धान्यं अक्रितं न तिष्ठेत्। अधिकारिणः स्पष्टतया निर्देशिताः यत् धान्यक्रयप्रक्रिया पूर्णया पारदर्शितया संवेदनशीलतया च सञ्चालनीया, येन किसानानां काचन अपि असुविधा न भवेत्।

अस्मिन् निर्णये विधायकः मुख्यमंत्रीप्रति कृतज्ञतां प्रकटयन् अवदत् यत् एषः निर्णयः सहस्रशः किसानानां हिते अस्ति। सः अपि अवदत् यत् प्रदेशसरकार किसानहितैषिणी अस्ति तथा किसानानां सर्वासां समस्याणां समाधानाय प्रतिबद्धा अस्ति। लक्ष्यवृद्धेः वार्तया क्षेत्रस्य किसानानां मध्ये हर्षलहरी प्रवहति।

---------------

हिन्दुस्थान समाचार