आध्यात्मिक-मूल्यानाम् अस्तित्वम् अत्यन्तम् आवश्यकम् — सुनील-आम्बेकरः
सुलतानपुरम्, २० जनवरीमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-सङ्घस्य (आर.एस.एस.) अखिल-भारतीय-प्रचार-प्रमुखः सुनील-आम्बेकरः मङ्गलवासरे सुलतानपुरनगरे तिकोनिया-क्षेत्रे स्वामि-विवेकानन्दस्य प्रतिमाम् अनावृतवान्। अस्मिन् अवसरे सुनील-आम्बेकरः स्वामि-विवेकानन
स्वामी विवेकानंद की प्रतिमा का अनावरण कार्यक्रम में पहुंचे सुनील आंबेकर जी


सुलतानपुरम्, २० जनवरीमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-सङ्घस्य (आर.एस.एस.) अखिल-भारतीय-प्रचार-प्रमुखः सुनील-आम्बेकरः मङ्गलवासरे सुलतानपुरनगरे तिकोनिया-क्षेत्रे स्वामि-विवेकानन्दस्य प्रतिमाम् अनावृतवान्।

अस्मिन् अवसरे सुनील-आम्बेकरः स्वामि-विवेकानन्दस्य जीवन-दर्शनं प्रकाशयन् अवदत् यत् भारतदेश: यदा आर्थिक-तथा-सामाजिक-रूपेण प्रगतिं करोति, तदा आध्यात्मिक-मूल्यानाम् अस्तित्वम् अत्यन्तम् आवश्यकम् अस्ति। अद्यतनं दिनं विशेषतया महत्त्वपूर्णम् अस्ति, यतः देशः आर्थिक-स्थितौ अग्रे गच्छन् जीवनस्य सर्वेषु क्षेत्रेषु प्रगतिं करोति, तस्मिन् समये आध्यात्मिकतायाः अपि समाना आवश्यकता अस्ति। प्रत्येकं नागरिकेण देश-विषये चिन्तनं कर्तव्यम् इति सः अवदत्। स्वामि-विवेकानन्दस्य जीवन-सन्देशस्य प्रचाराय एव अद्य एषा प्रतिमा अनावृता।

कार्यक्रमे अन्ये वक्तारः अपि अवदन् यत् स्वामि-विवेकानन्दस्य जीवनं संघर्षैः परिपूर्णम् आसीत्, तथा तस्य आदर्शाः अद्यापि यून: राष्ट्र-निर्माणाय प्रेरयन्ति। प्रतिमायाः अनावरणेन सह सम्पूर्णे परिसरे उत्साहपूर्णं वातावरणं दृष्टम्। एषः कार्यक्रमः स्वामि-विवेकानन्दस्य प्रसिद्ध-सन्देशस्य — “उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत”—आत्मसात्-करणस्य संकल्पेन सम्पन्नः।

अस्मिन् अवसरे नगर-पालिका-अध्यक्षः प्रवीण-अग्रवालः, भा.ज.पा.-नेता आलोक-कुमार-आर्यः, डॉ.ए.के.सिंहः तथा अन्ये अनेके गणमान्या: उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani