उत्तर प्रदेशे बार काउंसिलनिर्वाचनं शुभारब्धम्
जौनपुरे 20-21 जनवरी मतदानं, 5734 मतदातारः करिष्यन्ति मतदानम् जौनपुरम्,20 जनवरीमासः (हि. स.)। उत्तरप्रदेशस्य जौनपुरनगरे उत्तर प्रदेश बार काउंसिल इत्यस्य निर्वाचनप्रक्रिया आरब्धा अस्ति। जौनपुरस्थिते दिवानीन्यायालयपरिसरे 20 तथा 21 जनवरीदिनाङ्कयोः मत
दीवानी न्यायालय


जौनपुरे 20-21 जनवरी मतदानं, 5734 मतदातारः करिष्यन्ति मतदानम्

जौनपुरम्,20 जनवरीमासः (हि. स.)। उत्तरप्रदेशस्य जौनपुरनगरे उत्तर प्रदेश बार काउंसिल इत्यस्य निर्वाचनप्रक्रिया आरब्धा अस्ति। जौनपुरस्थिते दिवानीन्यायालयपरिसरे 20 तथा 21 जनवरीदिनाङ्कयोः मतदानं भविष्यति। एतत् मतदानं नवीनभवनस्य सभागृहे प्रातः 10 वादनात् सायं 5 वादनपर्यन्तं प्रवर्तिष्यते।

मतदातृपरिचयस्य सुनिश्चित्यर्थं मतदातृभिः स्वस्य सीओपी (Certificate of Practice) प्रमाणपत्रं तथा पञ्जीकरणप्रपत्रं सह नीत्वा सभागृहे उपस्थितकर्मचारिभ्यः सम्पर्कः करणीयः। मतदानार्थं कुलं सप्त सारण्यः (टेबलाः) तथा पञ्चदश मतदानकक्ष्याः (बूथाः) निर्मिताः सन्ति, मतदातृसंख्यावृद्धौ तेषां संख्या वर्धयितुं शक्यते।

कस्यापि मतदातुः अस्त्रशस्त्रैः, चलदूरभाषेण अथवा अन्यैः इलेक्ट्रॉनिकोपकरणैः सह मतदानस्थले प्रवेशः न अनुमन्यते। अस्य विषये पीठासीनाधिकारी रणजीत कुमारः तथा मुकीम अहमदः सूचनां प्रकाशितवन्तौ।

उत्तरप्रदेश बार काउंसिलनिर्वाचने कुलं पञ्चविंशतिः प्रत्याशिनः चयनिताः भविष्यन्ति, यस्य कृते त्रिशतत्रिंशत् (333) प्रत्याशिनः निर्वाचनरणाङ्गणे सन्ति। जौनपुरजनपदात् भूपेशचन्द्रवंशी, क्षितिजप्रियदर्शी, सचिनकुमारयादवः, समरबहादुरयादवः तथा तुलसीरामयादवः इत्यादयः पञ्च प्रत्याशिनः निर्वाचनं कुर्वन्ति।

जौनपुरनगरे कुलं 5734 मतदातारः सन्ति। प्रत्येकः मतदाता अधिकतमं पञ्चविंशतिः मतान् दातुं शक्नोति, किन्तु न्यूनतमं पञ्च मतदानं अनिवार्यम् अस्ति। मङ्गलवासरे मतदानस्य आरम्भात् पूर्वं जनपदस्य केचन अधिवक्तारः—हिमांशु श्रीवास्तवः, राजेश उपाध्यायः, सूर्यमणि पाण्डेयः, राजेश श्रीवास्तवः, रघुवंश सहायः, विजय श्रीवास्तवः, पंकज त्रिपाठी इत्यादयः—अवदन् यत् एतावता मतदातृसंख्यायाः सत्तापि जौनपुरतः कश्चन प्रत्याशीः प्रायः न चयन्यते।

तेषां मतानुसारं अस्मिन् वारे जौनपुरस्य अधिवक्तृणां प्राथमिकता दातव्या, येन जौनपुरतः अपि एकः प्रतिनिधिः चयनितः भवेत्। सः प्रतिनिधिः प्रदेशस्तरे अधिवक्तॄणां समस्याः मागणीश्च समाधानयितुं समर्थः भविष्यति। अधिवक्तॄणां प्रमुखासु मागणीषु “एडवोकेट् प्रोटेक्शन् एक्ट्” इत्यस्य प्रवर्तनम् अपि अन्तर्भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता