उपराष्ट्रपतिः बुधवासरे कर्नाटकभ्रमणे
नव दिल्ली, 20 जनवरीमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णनः बुधवासरे कर्नाटकप्रदेशे एकदिवसीयप्रवासे भविष्यति। उपराष्ट्रपतिसचिवालयस्य सूचनानुसारं अस्मिन् प्रवासे उपराष्ट्रपतिः तुमकुरुनगरे स्थिते श्रीसिद्धगङ्गामठे आयोजिते शिवकुमारमहास्वामिजीस
उपराष्ट्रपति सी. पी. राधाकृष्णन (फाइल फोटो)


नव दिल्ली, 20 जनवरीमासः (हि.स.)।

उपराष्ट्रपतिः सी. पी. राधाकृष्णनः बुधवासरे कर्नाटकप्रदेशे एकदिवसीयप्रवासे भविष्यति। उपराष्ट्रपतिसचिवालयस्य सूचनानुसारं अस्मिन् प्रवासे उपराष्ट्रपतिः तुमकुरुनगरे स्थिते श्रीसिद्धगङ्गामठे आयोजिते शिवकुमारमहास्वामिजीस्य सप्तमे स्मृतिदिवससमारोहे मुख्यातिथिरूपेण सहभागं करिष्यति।

अस्मिन् अवसरे सः आध्यात्मिक, सामाजिक तथा शैक्षणिकयोगदानेषु स्वीयान् विचारान् व्यक्तं करिष्यति। ततः अपराह्णकाले उपराष्ट्रपतिः बेंगलुरुनगरे स्थितस्य सीएमआर इन्स्टिट्यूट् ऑफ् टेक्नोलॉजी इत्यस्य रजतजयन्तीसमारोहे अपि सहभागी भविष्यति।

-----------

हिन्दुस्थान समाचार