भा.ज.पा.-पक्षे राजनीतिः पदभारः न, अपि तु उत्तरदायित्वम् अस्ति — नितिन-नबीनः
नवदेहली, २० जनवरीमासः (हि.स.)।भारतीय–जनता–पक्षस्य (भा.ज.पा.) नवनिर्वाचितः राष्ट्रिय-अध्यक्षः नितिन–नबीनः स्वस्य प्रथम-संबोधने प्रधानमन्त्री नरेन्द्र–मोदिं प्रति कृतज्ञतां व्यक्तवान्। सः अवदत् यः जनानां भावनाभिः यः सम्बन्धं स्थापयितुं शक्नोति, स एव
संगठन पर्व को संबोधित करते हुए  भाजपा अध्यक्ष नितिन नबीन


प्रधानमंत्री मोदी के साथ भाजपा अध्यक्ष नितिन नबीन संगठन पर्व के समापन के मौके पर


नवदेहली, २० जनवरीमासः (हि.स.)।भारतीय–जनता–पक्षस्य (भा.ज.पा.) नवनिर्वाचितः राष्ट्रिय-अध्यक्षः नितिन–नबीनः स्वस्य प्रथम-संबोधने प्रधानमन्त्री नरेन्द्र–मोदिं प्रति कृतज्ञतां व्यक्तवान्। सः अवदत् यः जनानां भावनाभिः यः सम्बन्धं स्थापयितुं शक्नोति, स एव महान् भवति।कार्यकर्तारूपेण सः प्रधानमन्त्री–मोदिना देशसेवायाः कार्याणि कुर्वन्तं दृष्टवान्। तस्मात् सः अवगतवान् यत् यः स्वं जनभावनाभिः संयोक्तुं शक्नोति, स एव महान् पुरुषः भवति।भा.ज.पा.-पक्षे राजनीतिः पदभारः न, अपि तु उत्तरदायित्वं भवति इति सः प्रतिपादितवान्।

मोदिना सह कृतस्य एकस्य कार्यक्रमस्य स्मरणं कुर्वन् नितिन–नबीनः अवदत्—“मम स्मृतौ अस्ति यत् प्रथमवारं गुजरात-राज्यस्य आणन्द-नगरे भवता सह एकस्मिन् कार्यक्रमे भागं गृहीतवान् अस्मि। तदा सद्भावना–अभियान–कार्यक्रमस्य समये भवन्तं प्रत्येकं व्यक्तेः वचनं सावधानतया शृण्वन्तं दृष्टवान्। कार्यक्रम-समाप्तेः अनन्तरं यदा भवता स्वकक्षे अस्मान् सम्बोधितं, तदा भावुकतया स्पष्टं कृतं यत् किमर्थं गुजरातात् एतावन्तः जनाः आगताः आसन्। तस्मिन् दिने मया अवगतम् यत् यः जनभावनाभिः संयोज्यते, स एव महान् भवति।”

सः अवदत् यत् यदि अद्य भा.ज.पा. विश्वस्य सर्वातिवृहत्तम: राजनैतिक-पक्षः अस्ति, तस्य कारणं प्रेरणादायकं नेतृत्वं, दृढा विचारधारा तथा कार्यकर्तॄणाम् अथक-परिश्रमः एव। सः कार्यकर्ता यः निरन्तरं कार्यं करोति, यः कठिनातिकठिन-परिस्थितौ अपि भारतस्य ध्वजं न अवनमयति, यः गर्वेण वदति— “तेरा वैभव अमर रहे मां।”

नितिन–नबीनः विपक्षी-पक्षान् लक्ष्यीकृत्य अवदत् यत् तमिलनाडु-राज्यस्य एकस्मिन् पर्वते पवित्रस्य कार्तिगै-दीपम-पर्वणः आयोजनं निरोद्धुं प्रयासः कृतः। एषा एकमात्रा घटना नास्ति; विपक्षेन अन्याः अपि परम्पराः अवरोद्धुं षड्यन्त्रं कृतम्। एकस्य न्यायाधीशस्य विरुद्धं महाभियोगस्य प्रयासः अपि कृतः। सोमनाथ-नगरे गौरव-पर्वण: आयोजनं विपक्षीजनानां कृते असहजतां जनयति। सः अवदत् यत् एतादृश्य: परम्पराः निरोद्धुं प्रयतमानाः शक्तयः अवश्यं समुद्धर्तव्याः। राम-सेतोः अस्तित्वं न अङ्गीकुर्वन्तः तथा कार्तिगै-दीपम-पर्वण: विरोधिनः जनाः भारतीय-राजनीत्यां स्थानं न प्राप्नुयुः— इति सर्वैः सुनिश्चितं कर्तव्यम्। यह: एतस्य पर्वण: विरोधं करोति तस्या कृते राजनीत्यां स्थानं नास्ति।

सः अवदत् यत् अग्रिममासेषु तमिलनाडु-असम-पश्चिमबङ्गाल-केरल-पुडुचेरी-राज्येषु निर्वाचनानि भविष्यन्ति। एतेषां राज्यानां जनसांख्यिकीविषये व्यापकः विचारः क्रियते। परिवर्तमाना जनसांख्यिकी तत्रत्यां स्थितिं परिवर्तयति, या अस्माकं कृते समस्या अस्ति। तथापि पूर्णः विश्वासः अस्ति यत् भा.ज.पा.-कार्यकर्तारः स्वसंघर्षेण कठोर-परिश्रमेण च एतेषु पञ्चसु राज्येषु पक्षं सफलतां दापयिष्यन्ति।

उल्लेखनीयम् यत् १९८० तमे वर्षे जातः नितिन–नबीनः स्वस्य राजनैतिक-यात्रायाः आधारं राष्ट्रीय-स्वयंसेवक-सङ्घस्य कठोर-अनुशासनात् अटल-राष्ट्रभक्तेश्च आरब्धवान्। गतद्वयोः दशकेषु सः स्वपरिश्रमेण दूरदर्शितया च भा.ज.पा.-संघटने साधारण-कार्यकर्तृत्वात् आरभ्य पूर्णकालिक-राष्ट्रिय-अध्यक्षस्य महत्त्वपूर्ण-उत्तरदायित्वं यावत् गतिम् अकरोत्।

२००६ तमे वर्षे सः पटना-पश्चिम-क्षेत्रात् प्रथमवारं विधायकः भूत्वा जनसेवायाः संकल्पं कृतवान्। बिहार-सर्वकारे मन्त्रीरूपेण सः पथ-निर्माण-विभागे नगर-विकास-विभागे च अभूतपूर्व-संशोधनानि अकरोत्।

हिन्दुस्थान समाचार / Dheeraj Maithani