Enter your Email Address to subscribe to our newsletters

वाराणसी, 03 जनवरीमासः (हि. स.)।
वाराणस्यां समतलस्थिते टाउन हाल प्राङ्गणे विद्यमानस्य शरणालयस्य निरीक्षणं कृत्वा मुख्यमन्त्री योगी आदित्यनाथः पत्रकारान् उक्तवान् यत् उत्तरप्रदेशे निशीथशरणालयानि सुविधासम्पन्नानि कर्तुं पर्याप्तं वित्तं प्रदत्तम्। वाराणस्यां निर्मिते निशीथशरणालये जनानां शैत्यरक्षणाय सर्वाः व्यवस्थाः क्रियिताः। जिलाप्रशासनं नगरनिगमं तथा अन्यानि संस्थानानि च मिलित्वा शरणालयं निर्मितवन्तः। जनान् शैत्यात् रक्षितुं अत्र सम्यग्व्यवस्था कृता अस्ति। निरीक्षणकाले वाराणसीदक्षिण्याः विधायकः डॉक्टर नीलकण्ठ तिवारी उत्तर्याः विधायकः च राज्यस्य स्वतन्त्रप्रभारमन्त्री रविन्द्र जायसवाल आयुषमन्त्री डॉक्टर दयाशंकर मिश्र विधायकः अवधेश सिंह महापौरः अशोक तिवारी तथा नगरनिगमस्य अधिकारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार