Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०४ जनवरीमासः (हि.स.)। प्रत्येकं वर्षं ०४ जनवरी इति दिनं लुई–ब्रेल–दिवसः इति रूपेण आचर्यते, यतः अस्यां एव तिथौ १८०९ तमे वर्षे ब्रेल–लिपेः आविष्कर्ता लुई–ब्रेल-इत्यस्य जन्म अभवत्। दृष्टिबाधित–जनानां शिक्षायाः, सञ्चारस्य च प्रमुखं माध्यमं या ब्रेल–लिपिः अस्ति, तस्याः महत्त्वं जनसामान्येषु प्रसारयितुं एषः दिवसः आचर्यते।संयुक्त–राष्ट्र–संघेन २०१८ तमे वर्षे ०४ जनवरीं विश्व–ब्रेल–दिवसः इति घोषितः, येन दृष्टिहीन–जनानायधिकार–समानता, शिक्षायाः उपलब्धता तथा स्वावलम्बनस्य संदेशः वैश्विक–स्तरे प्रसारितः।
अन्याः महत्त्वपूर्णाः घटनाः -
२०२० – केन्द्रीय–मानव–संसाधन–विकास–मन्त्री रमेश–पोखरियाल–निशंकः नूतन–दिल्ली–विश्व–पुस्तक–मेलापकस्य २८ तमे संस्करणस्य उद्घाटनं कृतवान्। अस्य मेलापकस्य विषयः “गान्धीः लेखकानां लेखकः” आसीत्।२०१० – भारतदेशे सेबी (SEBI) इत्यस्य आदेशेन भाग–विनिमय–विपणस्य उद्घाटन–समयः प्रातः ९ वादने निश्चितः।२००९ – पीपुल्स–डेमोक्रेटिक–पार्टी इत्यनेन यू.पी.ए.–सहयोगात् सम्बन्ध: विच्छिन्नः।२००८ – अमेरिकादेशेन श्रीलङ्कायै सैन्य–उपकरण–सेवयोः आपूर्तिः प्रतिबन्धिता।२००६ – दुबई–शासकस्य शेख–मकतूम–बिन–रशीद–अल–मकतूम इत्यस्य निधनम्।२००४ – इस्लामाबाद–नगरे भारतस्य प्रधानमन्त्री अटल–बिहारी–वाजपेयी तथा पाकिस्तानस्य प्रधानमन्त्री जमाली इत्येतयोः वार्ता सम्पन्ना।२००२ – ब्रिटिश–प्रधानमन्त्री टोनी–ब्लेयर: भारतदेशं प्राप्तवान्।१९९९ – अमेरिकीय–यानस्य मार्स–पोलर–लैण्डर–प्रोब इत्यस्य मङ्गल–ग्रहे जलवाष्प–विश्लेषणाय प्रेषणम्।१९९० – पाकिस्तानदेशे द्वयोः रेलयानयोः धक्कया प्रायः ३०७ जनानां मृत्युः, बहवः आहताः।१९७२ – नूतन–दिल्ली–नगरे अपराधशास्त्र–न्यायवैज्ञानिक–संस्थानस्य उद्घाटनम्।१९६६ – भारत–पाकिस्तान–सम्मेलनस्य आरम्भः, लाल–बहादुर–शास्त्री तथा अयूब–खान इत्ययोः मध्ये।
जन्मदिवसाः
१९९३ – अपूर्वी–चन्देला (भारतीय–महिला–निशानेत्री)१९६५ – आदित्य–पञ्चोली (हिन्दी–चलच्चित्र–अभिनेता)१९५५ – प्रताप–चन्द्र–सारङ्गी (समाजसेवी, राजनीतिज्ञः)१९५२ – टी.एस.–ठाकुरः (भारतस्य ४३ तमः मुख्य–न्यायाधीशः)१८०९ – लुई–ब्रेल् (ब्रेल–लिपेः आविष्कर्ता)
निधन–दिवसाः
२०२२ – सिन्धुताई–सपकाल (अनाथ–बाल–सेविका)२०१७ – अब्दुल–हलीम–जाफर–खान (सितार–वादकः)१९९४ – राहुल–देव–बर्मन् (आर.डी.–बर्मन्), प्रसिद्ध–सङ्गीतकारः१९३१ – मोहम्मद–अली (स्वतन्त्रता–सेनानी, पत्रकारः)१९०५ – अयोध्याप्रसाद–खत्री (खड़ी–बोली–कविः)
महत्त्वपूर्णः अवसरःलुई–ब्रेल–दिवसः
हिन्दुस्थान समाचार / Dheeraj Maithani