प्रयागराजे भव्य सांस्कृतिक प्रस्तुतीनाम् आयोजनं 3 तः 30 जनवरी यावत्
संस्कृति विभागेन ख्याति प्राप्ताः कलाकाराः करिष्यन्ति रंगारंग कार्यक्रमाणां प्रस्तुतिम् : जयवीर सिंहः प्रयागराजः, 03 जनवरीमासः (हि.स.)।उत्तरप्रदेशसर्वकारस्य संस्कृतिविभागस्याऽधीनस्य अधिष्ठितसंस्कृतिनिदेशालयस्य स्वायत्तसंस्थाभिः माघमेलनिमित्तं पवित
माघ मेला


संस्कृति विभागेन ख्याति प्राप्ताः कलाकाराः करिष्यन्ति रंगारंग कार्यक्रमाणां प्रस्तुतिम् : जयवीर सिंहः

प्रयागराजः, 03 जनवरीमासः (हि.स.)।उत्तरप्रदेशसर्वकारस्य संस्कृतिविभागस्याऽधीनस्य अधिष्ठितसंस्कृतिनिदेशालयस्य स्वायत्तसंस्थाभिः माघमेलनिमित्तं पवित्रे अवसरिशे ३ जनवरीतः ३० जनवरीपर्यन्तं भव्याः सांस्कृतिकप्रस्तुतयः आयोज्यन्ते। एष आयोजनम् भारतस्य संस्कृतेः सनातनपरम्परायाः आध्यात्मिकचेतनायाश्च त्रिवेणीसंगमस्य सजीवप्रतीकम् भविष्यति।

प्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहे अवदत् यत् त्रिवेणीसंगमस्य पुण्यभूमौ प्रयागराजे आयोजितं माघमेलनं प्राचीनकालादेव तपः साधना स्नान दान सत्संगपरम्पराणां केन्द्रं जातम्। तेनैव आध्यात्मिकशक्त्या अनुप्राणिताः या सांस्कृतिकप्रस्तुतयः आयोज्यन्ते ताः शास्त्रीय लोक भक्ति परम्पराणां माध्यमेन भारतीयजीवनदर्शनं सांस्कृतिकमूल्यानि च सशक्तां अभिव्यक्तिं दास्यन्ति।ते अवदन् यत् उत्तरप्रदेशस्य संस्कृतिविभागेन कला साहित्य क्षेत्राभ्यां सम्बद्धानाम् अतिविशिष्टानां ख्यातिलब्धानां कलाकाराणाम् चयनं मानदयनिर्णयप्रक्रिया च कृत्वा विविधाः सांस्कृतिककार्यक्रमाः आयोज्यन्ते। एषु शास्त्रीयसंगीतं ध्रुपदं खयाल गानम् वाद्यसंगीतं सितार सरोद बांसुरी पंचनाद वाद्यवृन्द शास्त्रीयनृत्यं नृत्यनाटिका कथक ओडिसी लोकनृत्यं ढेढिया करम् मयूरं फरुवाही अवधलोकनृत्यं फूलोन्कीहोली पाईडण्डा भजनं कबीरवाणी सुन्दरकाण्डपाठः शंखवादनम् शास्त्रीय उपशास्त्रीयगायनम् भजनं देशभक्तिप्रस्तुतयश्च समावेश्यन्ते।

ते अवदन् यत् माघमेलनं केवलं धार्मिकआयोजनं न भवति किन्तु भारतीयात्मनः जीवन्ताऽभिव्यक्तिः। संस्कृतिनिदेशालयेन आयोज्यमानाः एताः सांस्कृतिकप्रस्तुतयः अस्माकं शास्त्रीयलोकपरम्पराः आध्यात्मिकचेतनया संयोजयन्त्यः जनमनसि संस्कारं समरसतां सांस्कृतिकगौरवं च जागरयिष्यन्ति। प्रयागराजस्य पावनभूमौ कला अध्यात्म च एष संगमः एकभारत श्रेष्ठभारत इति भावनां अधिकं दृढयिष्यति।

माघमेलने देशस्य सुप्रसिद्धाः ख्यातिलब्धाश्च सेलेब्रिटीकलाकाराः आमन्त्रयितुं प्रस्ताविताः। कलाकारेषु सुप्रसिद्धा लोकगायिका मालिनीअवस्थी शास्त्रीयभक्तिसंगीतयोः ख्याता गायिका ममताज्योषी मैहरघराणपरम्परासम्बद्धः मैहरबैण्ड् उत्तमपाण्डेय भजन्सम्राट् अनुपजलोटा तथा युवावर्गे अतीवप्रसिद्धः आध्यात्मिकलोकफ्यूजनसमूहः कबीरकैफे इति सम्मिलिताः। मकरसंक्रान्तेः अनन्तरं ऋषिसिंह मौन्यामावास्याया अनन्तरं सुरेशशुक्लः प्रतिभासिंहबघेल पियूषाकैलाश च तथा वसन्तपञ्चमीसमये सैमवर्कशॉप् साधोबैण्ड् शिवम्मिश्राऽन्दाजबैण्ड् स्वातिमिश्रा आकांक्षात्रिपाठी चेति विशिष्टप्रतिभाभिः प्रस्तुतयः कर्तुं प्रस्ताविताः।

माघमेलनां एताः सांस्कृतिकसंस्थाः श्रद्धालून् साधुसन्तान् पर्यटकान् कलाप्रेमिणश्च भारतीयसंस्कृतेः आध्यात्मिकगौरवगम्भीर्यं लोकपरम्पराणां च समृद्धधरोहरं सम्बध्नन्ति। एष आयोजनं कलामाध्यमेन अध्यात्मेति अवधारणां साकारयन् भारतीयसंस्कृतेः शाश्वतमूल्यानि सत्यम् करुणा भक्तिः समरसता चेति व्यापकस्तरे प्रसारयिष्यति।

संस्कृतिपर्यटनविभागीयेन प्रमुखसचिवेन स्वसन्देशे उक्तं यत् माघमेलनं अस्माकं प्राचीनसंस्कृतेः अङ्गम् अस्ति। स एव अवदत् यत् कस्यापि श्रद्धालोः असुविधा न भवेत् इति विशेषं ध्यानं कर्तव्यम्।

---------------

हिन्दुस्थान समाचार