हैम–वेतारयन्त्रेण गङ्गासागरे नूतना डिजिटल–क्रान्तिः, सुरक्षित–सञ्चारेण यात्रिकाणां सुरक्षा वर्धिष्यते
कोलकाता-नगरम्, ०३ जनवरीमासः (हि.स.)। गङ्गासागर-मेलापके अस्मिन् वर्षे हैम-वेतारयन्त्र-प्रणाल्या नूतनाया: डिजिटल-प्रौद्योगिक्याः प्रयोगः क्रियते, येन न केवलं देशस्य, अपि तु सम्पूर्णे विश्वे सुरक्षितं शीघ्रं च सञ्चारं सम्भविष्यति। अस्याः नवीन-व्यवस्थ
हैम


कोलकाता-नगरम्, ०३ जनवरीमासः (हि.स.)। गङ्गासागर-मेलापके अस्मिन् वर्षे हैम-वेतारयन्त्र-प्रणाल्या नूतनाया: डिजिटल-प्रौद्योगिक्याः प्रयोगः क्रियते, येन न केवलं देशस्य, अपि तु सम्पूर्णे विश्वे सुरक्षितं शीघ्रं च सञ्चारं सम्भविष्यति। अस्याः नवीन-व्यवस्थायाः मुख्यम् उद्देश्यं सन्देशानां गोपनीयता-संरक्षणं तथा यात्रिकाणां सुरक्षायाः अधिक-सुदृढीकरणम् अस्ति। हैम-वेतारयन्त्रेण अधुना देशस्य कस्मिन् अपि भागे अल्प-कालेन एव सुरक्षित-सन्देश-प्रेषणं सम्भवं भविष्यति।

अद्यावधि पश्चिम-बङ्गाल-वेतारयन्त्र-क्लब-इत्यस्य हैमवेतारयन्त्र-प्रचालकाः जनपद-प्रशासनस्य अनुरोधेन गङ्गासागर-मेलापके एनालॉग-वेतारयन्त्र-प्रणाल्याः माध्यमेन सेवां कुर्वन्ति स्म। मेलापक-कालावधौ लुप्त-जनानां सूचनां प्रेषणात् आरभ्य, गम्भीर-रोगपीडितानां तीर्थयात्रिकाणां वायु-एम्बुलेन्स-द्वारा कोलकाता-नगरे स्थितेषु विविधेषु सुपर-स्पेशलिटी-चिकित्सालयेषु प्रेषणपर्यन्तं, हैम-रेडियो महत्त्वपूर्णां भूमिकां निर्वहति स्म। बहुषु अवसरेषु रोगिणां परिजनानां विवरणाभावेऽपि हैम-वेतारयन्त्रेण देशस्य विभिन्नेषु भागेषु सूचना प्रेषिता। नूतनाया: डिजिटल-प्रणाल्याः आगमनेन एतत् कार्यम् अधिकं त्वरितं प्रभावशालीं च भविष्यति इति अपेक्षा अस्ति।

अधिकारिभिः सूचितं यत् अधुना सन्देशाः साक्षात् देशव्यापिनां हैम-वेतारयन्त्र-प्रचालकानां समीपं क्षणमात्रेण प्राप्स्यन्ति, येन परिणामाः अपि शीघ्रं दृश्यन्ते। विगत-षट्-त्रिंशत्-वर्षेभ्यः हैमवेतारयन्त्रप्रचालकाः अस्थायी-नियन्त्रण-कक्षमाध्यमेन सम्पूर्णे देशे सन्देश-प्रेषणं कुर्वन्ति स्म। अस्मिन् वर्षे मेलापकक्षेत्रस्य भौगोलिक-परिवर्तनं तथा सम्मर्द-वृद्धेः सम्भावनां दृष्ट्वा नियन्त्रण-कक्षे अधिकः भारः सम्भाव्यते। अपि च, अस्मिन् वर्षे कुम्भ-मेलापकस्य आयोजनाभावात् देशस्य विविधेभ्यः भागेभ्यः अधिक-सङ्ख्यायां तीर्थयात्रिण: गङ्गासागरम् आगमिष्यन्ति इति अनुमानं क्रियते।

गङ्गासागर-मेलापके अन्ताराष्ट्रिय-परिचयस्य विस्तारे अपि एषा प्रौद्योगिकी महत्त्वपूर्णा मन्यते। वेतारयन्त्र-सोसाइटी ऑफ ग्रेट् ब्रिटेन इत्येतस्या: संस्थायाः द्वारा गङ्गासागर-द्वीपः ए.एस. १५३ इति रूपेण मान्यता-प्राप्तः अस्ति। अनेन विश्व-मानचित्रे गङ्गासागर-द्वीपस्य भौगोलिक-स्थितेः विशेषं महत्त्वं प्राप्तम्। परिणामतः वर्षपर्यन्तं विदेशेभ्यः अपि बहवः पर्यटकाः सागरमागच्छन्ति, येन स्थानीय-जनानाम् आर्थिक-विकासस्य अपेक्षा वर्धते। मेलापक-कालावधौ विदेशी-पर्यटकाः अपि निरन्तरं सूचनाः इच्छन्ति, अतः वेतारयन्त्र-माध्यमेन तेषां कृते प्रत्यक्ष-स्थितिं ज्ञातुं शक्यते। आपदा-स्थितिष्वपि एषा सञ्चार-व्यवस्था अत्यन्तम् उपयोगी भविष्यति।

अस्यां नूतन-व्यवस्थायां डी.एम्.आर. (Digital Mobile Radio) इति डिजिटल-प्रौद्योगिक्याः प्रयोगः क्रियते। अस्याः प्रमुखं वैशिष्ट्यं यत् सन्देशाः पूर्णतया गोपनीयाः भविष्यन्ति। आवश्यकाः संवेदनशीलाश्च सूचनाः केवलं सम्बन्धित-जनैः एव श्रवणीयाः भविष्यन्ति; बाह्य-जनैः ताः श्रोतुं न शक्यन्ते। सम्मर्द-कोलाहले माइक्रोफोनद्वारा वाहन-सङ्ख्या अथवा अन्य-आवश्यक-सूचनानां श्रवण-समस्या अपि नश्यति, यतः वेतारयन्त्र-माध्यमेन साक्षात् सन्देश-प्रेषणं तथा एस.एम.एस.-प्रेषणम् अपि सम्भविष्यति। एवं गङ्गासागर-मेलापक: अधुना सम्पूर्णतया डिजिटल-युगे प्रविष्टः अस्ति।

पश्चिम-बङ्गाल-वेतारयन्त्र-क्लबस्य सम्पादकः अम्बरिश-नाग-विश्वासः अवदत् यत् एषा प्रौद्योगिकी गङ्गासागर-मेलापके सुरक्षा-सञ्चार-व्यवस्थायै नूतनां दिशां प्रदास्यति। अस्याः प्रयत्नस्य सफलतायां जयन्त-बैद्यः, हीरक-सिन्हा, दिबोस-मण्डलः, सौमिक-घोषः तथा रिंकू-नाग-विश्वासः इत्येतेषां अपि महत्त्वपूर्णा भूमिका आसीत्। आयोजकाः अवदन् यत् हैम-वेतारयन्त्रस्य अस्य डिजिटल-प्रयोगेण गङ्गासागर-मेलापक: न केवलं अधिक: सुरक्षितः भविष्यति, अपि तु विश्वस्य पुरतः आधुनिकी प्रौद्रोगिकु-दृष्ट्या सक्षमं आयोजनम् इति रूपेण अपि उद्भासिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता