Enter your Email Address to subscribe to our newsletters

रांची-नगरम्, ०३ जनवरीमासः (हि.स.)। कठोर -शीत-वातै: व्याप्ते नगरे यदा अधिकांशाः जनाः स्वगृहेषु संकुचिताः आसन्, तदैव उपायुक्त: तथा सह-जनपद-दण्डाधिकारी मंजूनाथ-भजन्त्री शीतपीडितानाम् आवश्यकताग्रस्त-जनानां पीडां स्वयम् अनुभूय तेषां साहाय्यार्थं रात्रौ मार्गेषु अवतीर्ण:।शुक्रवासरस्य रात्रौ अन्धकारे आकाशतले जीवनं यापयितुं विवशानां जनानां कृते एतत् कार्यं प्रथम-आशा-किरण-सदृशमभवत्। कर्बला-चतुष्पथे तथा रांची-रेलवे-स्थानक-परिसरे उपायुक्त: सहजनपद-दण्डाधिकारी मंजूनाथ-भजन्त्री स्वयम् उपस्थितः सन् निराश्रितानां, वृद्धानां, महिलानां तथा आवश्यकताग्रस्त-जनानां मध्ये मृदूनां गुणवत्तायुक्तानां कम्बलानां वितरणं कृतवान्।कम्बल-प्राप्त्या जनानां मुखेषु यः शान्तिः सन्तोषश्च दृश्यते स्म, सः अस्य मानवीय-प्रयत्नस्य सार्थकत्वं स्वयमेव उद्घोषयति स्म। अनेकानां नेत्रेषु तृप्तेः कृतज्ञतायाश्च भावाः स्पष्टतया दृश्यन्ते स्म।गुणवत्तायुक्त-कम्बलान् प्राप्य जनाः राज्य-सर्वकाराय हृदयतः धन्यवादं कृतवन्तः। बहवः आवश्यकताग्रस्ताः अवदन् यत् अस्यां भीषण-शीतवातै: सर्वकारपक्षत: कृता एषा सहायता तेषां कृते वरदान-सदृशी अस्ति। तैः जनपद-प्रशासनस्य संवेदनशीलता प्रशंसिता, एषा च मानवतायाः उदाहरणरूपेण निर्दिष्टा।उपायुक्त: सहजनपद-दण्डाधिकारी मंजूनाथ-भजन्त्री अवदत् यत् शीतात् संरक्षणं केवलं प्रशासनिकं कर्तव्यं न, अपि तु मानवीयं दायित्वम् अपि अस्ति। शीतकारणेन कोऽपि जनः पीडां न अनुभवेत्—एवम् जनपद-प्रशासनस्य मुख्यः प्रयासः अस्ति।जनपद-प्रशासनपक्षत: शीतर्तौ निरन्तरं कम्बल-वितरण-कार्यक्रमाः क्रियन्ते, येन समाजस्य अन्तिम-सीमायां स्थितः जनोऽपि सर्वकारस्य चिन्तां संवेदनां च अनुभवेयुः। एतत् कम्बल-वितरणं केवलं सहायता न, अपि तु सर्वकारस्य प्रशासनस्य च मानवीय-चिन्तनस्य संवेदनशील-दृष्टिकोणस्य च सजीवम् उदाहरणम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता