Enter your Email Address to subscribe to our newsletters

रांची, 03 जनवरीमासः (हि.स.)।
मुख्यमन्त्रिणं हेमन्तसोरेनं प्रति शनिवासरे राँचीस्थिते मुख्यमन्त्रिणः आवासीयकार्यालये “कौन् बनेगा करोड़पति” (केबीसी) सत्रसप्तदशस्य विजेत्रा बिप्लबबिस्वासेन शिष्टाचारमेलनं कृतम्। अस्मिन्नवसरे मुख्यमन्त्रिणा तस्मै उत्कृष्टप्रदर्शनस्य निमित्तं हार्दिका अभिनन्दना उज्ज्वलभविष्याय शुभाशंसाः च प्रदत्ताः।
मुख्यमन्त्रिणा हेमन्तसोरेन अवदत्— “बिप्लबबिस्वासस्य सिद्धिः केवलं झारखण्डराज्यस्य गौरववर्धिनी न भवति, अपि तु राज्यस्य युवानां प्रेरणास्रोतं भवति। तेन एतत् सिद्धं कृतं यत् परिश्रमेन, लग्नया, ज्ञानबलस्य च आधारेण सफलता नूनं प्राप्यते।” मुख्यमन्त्रिणा एतदपि उक्तम् यत् झारखण्डसरकाराय गर्वः यत् राज्यस्यैकः प्रतिभावान् युवकः राष्ट्रियमञ्चे स्वप्रतिभां दीप्तया प्रदर्शितवान्।
उल्लेखनीयम् यत् बिप्लबबिस्वासेन 30 तथा 31 दिसम्बर् 2025 तिथिषु प्रसारिते एपिसोड् मध्ये एकं कोटिं रूप्यकाणां प्रश्नस्य उत्तरं दत्त्वा एषा उपलब्धिः प्रापिता। सः अस्य सत्रस्य द्वितीयः प्रतिभागी यः एतत् सम्मानं प्राप्तवान्। कार्यक्रमे तस्य तर्कशक्ति, ज्ञानम्, आत्मविश्वासश्च सूत्रधार-अमिताभबच्चनेन सह दर्शकैः अपि प्रशंसिताः।
---------------
हिन्दुस्थान समाचार