पुस्तक–मेलायां कवि–सम्मेलने कविभिः भोजपुर्याः रङ्गः प्रसारित:
राञ्ची, ०३ जनवरीमासः (हि.स.)।राजधानी–राञ्च्यां जिला–विद्यालय–क्रीडाङ्गणे ‘समय–इण्डिया’, नवदिल्ली–संस्थाया: तत्वावधाने आयोज्यमाने दशदिवसीये राष्ट्रीय–पुस्तक–मेलापके शनिवासरे झारखण्ड–भोजपुरी–विकास–केन्द्रस्य सौजन्येन भोजपुर्या: कवि–सम्मेलनम् आयोजितम्
पुस्‍तक मेला की तस्‍वीर


राञ्ची, ०३ जनवरीमासः (हि.स.)।राजधानी–राञ्च्यां जिला–विद्यालय–क्रीडाङ्गणे ‘समय–इण्डिया’, नवदिल्ली–संस्थाया: तत्वावधाने आयोज्यमाने दशदिवसीये राष्ट्रीय–पुस्तक–मेलापके शनिवासरे झारखण्ड–भोजपुरी–विकास–केन्द्रस्य सौजन्येन भोजपुर्या: कवि–सम्मेलनम् आयोजितम्।

कवि–सम्मेलनस्य संयोजनं राष्ट्रीय–पुस्तक–मेलापकस्य आयोजकेन तथा समय–इण्डिया–संस्थाया: प्रबन्ध–न्यासिना चन्द्र–भूषणेन कृतम्। अस्य कार्यक्रमस्य मुख्यातिथिः राञ्ची–विश्वविद्यालयस्य हिन्दी–विभागस्य पूर्वाध्यक्षः डॉ.जे.बी.पाण्डेयः आसीत्, अध्यक्षतां च डॉ.उर्मिला–सिन्हा वहन्ती स्म।कार्यक्रमे संस्थाया: संरक्षकः रामजी–यादवः, सचिवः विनोद–सिंह–गहरवारः च उपस्थिताः आसन्।कवि–सम्मेलने निरञ्जन–प्रसाद–श्रीवास्तवः, सुनीता–श्रीवास्तवा, पूनम–वर्मा, रिम्मी–वर्मा, सविता–गुप्ता, विम्मी–प्रसादः, पुष्पा–पाण्डेया इत्यादयः कवयः स्वीयैः भोजपुर्या: काव्य–पाठैः श्रोतॄणां हृदयानि भावविभोराणि अकुर्वन्। तेषां कवितासु स्वमृत्तिकाया: गन्धः, लोक–संवेदना, जीवन–हृदयं च सजीव–रूपेण अनुभूयत।

रविवासरे राष्ट्रीय–पुस्तक–मेलापकस्य समापनम्राष्ट्रीय–पुस्तक–मेलापके रविवासरः पुस्तक–प्रेमिणां कृते पुस्तक–चयन–क्रयस्य अन्तिमः दिवसः भविष्यति। समापन–कार्यक्रमं राज्यस्य कृषि–मन्त्री शिल्पा–नेहा–तिर्की सम्बोधयिष्यति।एतस्मिन्नेव मेलापके कविना गजलकारेण च हिमकर–श्यामेन विरचितस्य ‘दिल–बंजारा’ इति गजल–संग्रहस्य लोकार्पणं कृतम्। अस्मिन् अवसरे आगतान् अतिथीन् आयोजकेन चन्द्र–भूषणेन स्वागतं कृतम्। वक्तारः कर्कट–रोगपीडितस्य श्यामस्य सृजनशीलतां प्रशंस्य तं निरन्तरं साहित्य–साधनाय प्रोत्साहितवन्तः।

तथैव डॉ.कुमुदा–विरचितयोः ‘महिला–उपन्यासकाराः और हमारा समाज’ तथा ‘लड़ेंगे तो जीतेंगे’ इत्येतयोः द्वयोः पुस्तकयो: लोकार्पणमपि सम्पन्नम्। एतौ ग्रन्थौ ‘समय–प्रकाशन’, नवदिल्ली–संस्थया प्रकाशितौ स्तः।‘लड़ेंगे तो जीतेंगे’ इति पुस्तकं १९७८ तः १९८३ पर्यन्तं सम्पन्नस्य बोधगया–भूमि–आन्दोलनस्य आधारेण रचिता अस्ति, या आन्दोलनस्य तान् सर्वान् सहयात्रीन् समर्पिता अस्ति, ये भूस्वामी–शासक–अन्यायस्य विरुद्धं संघर्षं कृत्वा पीडितेभ्यः सम्मान–पूर्ण–जीवनस्य मार्गं दर्शितवन्तः।

लोकार्पण–शृङ्खलायां गीताञ्जलिश्र्या: ‘माता–प्रकृतिः’ इति कविता–संग्रहस्य लोकार्पणमपि कृतम्।एवमेव राष्ट्रीय–पुस्तक–मेलापकः पाठकान् पाठकानां समीपम् आनयनस्य सशक्तं साहित्यिक–मञ्चमभवत्।

हिन्दुस्थान समाचार / ANSHU GUPTA