Enter your Email Address to subscribe to our newsletters


पौष-पूर्णिमायां स्नानं कृत्वा कल्पवासिनः साधनां प्रारभ्स्यन्ते
प्रयागराजः, ०३ जनवरीमासः (हि.स.)। विश्वविख्यातस्य प्रयागराज-माघ-मेलापकस्य पौष-पूर्णिमा-स्नानं शनिवासरे भोरकाले शुभ-मुहूर्ते ‘हर-हर गङ्गे’ इति जयघोषैः सह प्रारब्धम्। श्रद्धालवः पतित-पावन्याः मातुः गङ्गायाः, यमुनायाः तथा अन्तःसलिलायाः सरस्वत्याः पावने त्रिवेणी-सङ्गमे अवगाहनं कृत्वा पुण्यम् अर्जयन्ति। अनेन शुभ-स्नानेन सह एकमासपर्यन्तं कल्पवासस्य अपि शुभारम्भः अभवत्। श्रद्धालूनां विशाल-सङ्ख्यां दृष्ट्वा प्रशासनतपक्षत: दृढा-सुरक्षा-व्यवस्थाः कृपया: सन्ति।पौष-पूर्णिमा-स्नानार्थं देशस्य विविधेभ्यः भागेभ्यः लक्षाधिकाः श्रद्धालवः प्रयागराजं प्राप्तवन्तः। प्रातःकाले एव सङ्गम-तीरे जयघोषाणां निनादः गुंजितः। भीषण-शीतवातै: अपि श्रद्धालूनाम् उत्साहे न्यूनता न दृष्टा। कल्पवासिनः अपि स्व-स्व-शिविरेषु निवासं कृतवन्तः।माघ-मेला-प्रभारी ऋषिराजः तथा माघ-मेलापक-आरक्षी-अधीक्षकः नीरज-पाण्डेयः अवदताम् यत् श्रद्धालवः पतित-पावन्याः गङ्गा-यमुना-अन्तःसलिल-सरस्वतीनां पावने तटे शुभ-मुहूर्ते ‘हर-हर गङ्गे’ इति जयघोषैः सह आस्थायाः अवगाहनं कृत्वा पुण्यलाभं कुर्वन्ति।श्रद्धालवः सर्वेषु घाटेषु स्नानं कुर्वन्ति। स्नानार्थिनां महती सङ्ख्या दृश्यते। सुरक्षा-व्यवस्थाः अत्यन्तं सुदृढाः कृताः सन्ति। मेला-क्षेत्रे राज्य-आरक्षी, केन्द्रीय-सुरक्षा-बलम्, जल-सुरक्षा-दलम्, अग्निशमन-दलम्, आपदा-प्रबन्धन-दलम् तथा तांत्रिक-एककाः इत्यादीनां व्यापकं बहुस्तरीयं च विन्यासं कृतम् अस्ति।अत्र ७ अपर-आरक्षी-अधीक्षकाः तथा १४ आरक्षी-उपाधीक्षकाः माघ-मेलापक-आरक्षी-अधीक्षकस्य अधीनं कार्यं कुर्वन्ति। नागरिक-आरक्षी-अन्तर्गतं २९ निरीक्षकाः, २२१ पुरुष-उपनिरीक्षकाः, १५ महिला-उपनिरीक्षकाः, १५९३ पुरुष-मुख्य-आरक्षिणः एवम् आरक्षिणः, तथा १३६ महिला-मुख्य-आरक्षिण: एवं आरक्षिण्यः नियुक्ताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता