अद्य पृथिवी सूर्यस्य अत्यन्तं समीपं गच्छति, पूर्णिमायां चन्द्रः ‘सुपरमून्’ इव द्रक्ष्यते
भोपालनगरम्, ०३ जनवरीमासः (हि.स.)। खगोलविज्ञानस्य विषये रुचिं वहन्ति ये जनाः, तेषां कृते अद्य शनिवासरः विशेषमहत्त्वपूर्णः अस्ति। वस्तुतः अद्य (०३ जनवरी) नववर्षस्य उल्लासावसरे चन्द्रः सूर्यश्च उभौ अपि पृथिव्याः अत्यन्तं समीपं आगच्छतः। चन्द्रः पृथिव्य
पृथ्वी, सूरज और चांद


खगोलीय घटना की जानकारी देते हुए सारिका


भोपालनगरम्, ०३ जनवरीमासः (हि.स.)। खगोलविज्ञानस्य विषये रुचिं वहन्ति ये जनाः, तेषां कृते अद्य शनिवासरः विशेषमहत्त्वपूर्णः अस्ति। वस्तुतः अद्य (०३ जनवरी) नववर्षस्य उल्लासावसरे चन्द्रः सूर्यश्च उभौ अपि पृथिव्याः अत्यन्तं समीपं आगच्छतः। चन्द्रः पृथिव्याः समीपस्थितत्वात् प्रायः ‘सुपरमून’ इव द्रक्ष्यते, अपरतः पृथिवी सूर्यस्य परिक्रमान्तर्गतं तं बिन्दुं प्राप्नोति, यः सूर्यस्य सर्वाधिक-समीपवर्ती बिन्दुः अस्ति।मध्यप्रदेशस्य राष्ट्रीय-पुरस्कार-प्राप्ता विज्ञान-प्रसारिका सारिका-घारू एतस्य खगोलीय-घटनाक्रमस्य विवरणं दत्त्वा अवदत् यत् आकाशमण्डले विद्यमानाः सर्वे पिण्डाः अण्डाकार-पथे परिक्रामन्ति। अतः परिक्रमणस्य काले ते कदाचित् अत्यन्तं समीपवर्ती-बिन्दुं प्राप्नुवन्ति, कदाचित् च अत्यन्तं दूरस्थ-बिन्दुं गच्छन्ति। नववर्षस्य आरम्भे एषा समीपागमन-स्थितिः दृश्यते। एषा स्थितिः ‘पेरीहेलियनम्’ इति कथ्यते।सारिका-घारू अवदत् यत् अद्य शनिवासरे रात्रौ १० वादनात् ४५ निमेषेषु पृथिवी अस्मिन् वर्षे सूर्यस्य सर्वाधिक-समीपं गमिष्यति। तदा पृथिव्या: सूर्यस्य च अन्तरं न्यूनीभूय १४ कोटि ७० लक्ष ९९ सहस्र ८९४ किलोमीटर-मात्रं भविष्यति। जुलाई-मासे तु एषा दूरी वर्धित्वा १५ कोटि २० लक्ष ८७ सहस्र ७७४ किलोमीटर भविष्यति।तया अधिकं निरूपितं यत् बहुषु सामाजिक-माध्यमेषु पूर्णिमायाः चन्द्रः ‘वुल्फ-सुपरमून्’ इति प्रचार्यते। तथापि खगोलविज्ञानस्य दृष्ट्या चन्द्रः ०१ जनवरीदिने एव पृथिव्याः सर्वाधिक-समीपवर्ती-बिन्दुं प्राप्तवान् आसीत्, अद्य तु सः शनैः शनैः दूरं गच्छन् अस्ति। अतः एषः चन्द्रः पूर्णतया सुपरमून् न, किन्तु सुपरमून्-सदृशः एव दृश्यते। अद्य पूर्णिमायां चन्द्रः मिथुन-राशौ स्थितः सन् पृथिव्याः प्राय: त्रि-लक्ष-द्विषष्टि-सहस्र किलोमीटर-दूरे भविष्यति। सः सायंकाले उदितः सन् रात्रौ सर्वकालं आकाशे द्रक्ष्यते।येषां जनानां वास्तविकं सर्वाधिकं विशालं दीप्तिमन्तं च सुपरमून् द्रष्टुम् इच्छा अस्ति, तेषां कृते २४ दिसम्बरमासस्य प्रतीक्षा करणीयाऽस्ति।अन्ते सारिका-घारू अवदत् यत् नववर्षस्य प्रथम-सप्ताहे यत्र चन्द्रः पृथिव्याः समीपम् आगच्छति, तत्रैव पृथिवी अपि सूर्यस्य अत्यन्तं समीपवर्ती-बिन्दुं प्राप्नोति। अतः अस्मिन् सप्ताहान्ते पृथिव्याः समीपे स्थिताभ्यां सूर्य-चन्द्राभ्यां सह नववर्ष–२०२६ इत्यस्य आगमनस्य हर्षोल्लासं अवश्यम् अनुभवन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता