आगामी–गणतन्त्र–दिवस–२०२६–समारोहस्य सज्जायै सभा सम्पन्ना
कठुआ, ०३ जनवरीमासः (हि.स.)।आगामी गणतन्त्र–दिवस–२०२६–समारोहस्य आयोजनस्य सज्जाविषये हीरानगर–उपमण्डल–उपायुक्त: फुलैल–सिंहः (जेकेएएस) अधिकारिभिः सह एकां महत्त्वपूर्णां सभां कृतवान्। अस्यां सभायां राजस्व–विभागस्य, आरक्षी–विभागस्य, शिक्षा–विभागस्य, स्वा
Meeting held regarding preparations for the upcoming Republic Day 2026


कठुआ, ०३ जनवरीमासः (हि.स.)।आगामी गणतन्त्र–दिवस–२०२६–समारोहस्य आयोजनस्य सज्जाविषये हीरानगर–उपमण्डल–उपायुक्त: फुलैल–सिंहः (जेकेएएस) अधिकारिभिः सह एकां महत्त्वपूर्णां सभां कृतवान्।

अस्यां सभायां राजस्व–विभागस्य, आरक्षी–विभागस्य, शिक्षा–विभागस्य, स्वास्थ्य–विभागस्य, अभियान्त्रिकी–विभागस्य, केन्द्रीय–आरक्षी–बलस्य (सीआरपीएफ), अग्निशमन–आपत्कालीन–सेवानां च तथा अन्येषां सम्बन्धित–विभागानां अधिकारिणः उपस्थिताः आसन्। सभायां गणतन्त्र–दिवस–समारोहस्य सुव्यवस्थित–सफल–सञ्चालनं प्रति विस्तृतः विचार–विमर्शः अभवत्।

पथसंचालन–आयोजनम्, सांस्कृतिक–कार्यक्रमाः, सुरक्षा–व्यवस्था, स्वच्छता, विद्युत्–आपूर्तिः, पेयजल–व्यवस्था, चिकित्सकीय–सुविधाः, यातायात–प्रबन्धनम् तथा समग्र–समन्वय–व्यवस्थाः इत्यादीनां विषयाणां दायित्वं सम्बन्धित–विभागेभ्यः समर्पितम्। हीरानगर–एस.डी.एम.-महोदयेन राष्ट्रीय–उत्सवस्य पूर्ण–गरिमया, अनुशासनेन उत्साहेन च सम्पन्नतायै अन्तर–विभागीय–समन्वयस्य तथा समर्पित–कार्याणां समयबद्ध–पूर्णतायाः विशेषः आग्रहः कृतः।

अधिकारिणः निर्धारित–कालसीमायां अनुपालन–प्रतिवेदनं प्रस्तोतुं निर्देशिताः। सभाया: समापनं हीरानगरे गणतन्त्र–दिवस–समारोहं भव्य–सफलतां नेतुं दृढ–संकल्पेन अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता