उपराष्ट्रपतिः, गृहमंत्री समेत्य बहवो नेतारोऽददुः सावित्रीबाई फुले इत्यस्मै श्रद्धांजलिम्
नव दिल्ली, 03 जनवरीमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, गृहमन्त्री अमितशाहः, कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे च शनिवासरे सावित्रीबाई फुले इत्यस्याः जयंतीसमये श्रद्धाञ्जलिं समर्प्य तस्याः राष्ट्रसेवायां कृतं योगदानं स्मृतवन्तः। उपराष्ट
सावित्रीबाई फुले


नव दिल्ली, 03 जनवरीमासः (हि.स.)।

उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, गृहमन्त्री अमितशाहः, कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे च शनिवासरे सावित्रीबाई फुले इत्यस्याः जयंतीसमये श्रद्धाञ्जलिं समर्प्य तस्याः राष्ट्रसेवायां कृतं योगदानं स्मृतवन्तः।

उपराष्ट्रपतिः राधाकृष्णन् एक्स्-इति माध्यमे लिखितवान्— “सावित्रीबाई फुले-जयंतीदिने अहं भारतदेशे नार्याः शिक्षायाः दूरदर्शी-संशोधिकां अग्रगामिनीं च सम्मानपूर्वकं श्रद्धाञ्जलिं ददामि।”

अमितशाह अवदत् यत् सावित्रीबाई फुले इत्यस्या महिलाः शिक्षाया मूलाधिकारस्य संयोगेन नारीसशक्तीकरणं नूतनदिशां प्रति नीतवन्ती। तस्याः प्रेरणादायीजीवनं राष्ट्रनिर्माणे सदा मार्गदर्शकरूपेण भविष्यति।

कांग्रेसाध्यक्षः खरगे अवदत् यत् सावित्रीबाई फुले इत्यस्या समाजस्य वंचित-दलित-पीडित-शोषितवर्गाणाम् अधिकाराणां निमित्तं दृढतया संघर्षितवती तथा स्त्रीशिक्षायाः महिला-अधिकाराणां च सशक्तीकरणे अमूल्यं ऐतिहासिकं च योगदानं दत्तवती।

लोकसभायां नेता-प्रतिपक्षः राहुलगान्धी अवदत् यत् वंचितानां शोषितानां च अधिकाराणां कृते सावित्रीबाई-फुले-नामा या संघर्षः सामाजिकन्यायदिशायां तच्च योगदानं च सदा देशवासिनां मार्गदर्शनं करिष्यति।

संसदीयकार्य मन्त्री किरेन रिजिजू अवदत् यत् शिक्षा-सामाजिकसमानता-निमित्तं सावित्रीबाई फुले इत्यस्याः संघर्षः भारतीयसमाजस्य पथप्रदर्शकः अस्ति।

कोयल एवं खानमन्त्री जी. किशनरेड्डी अवदत् यत् सावित्रीबाई फुले-जीवनं कर्म च पीढीभ्यः शिक्षामार्गेण समानतां गरिमां सशक्तीकरणं च साधयितुं सततं प्रेरणां दास्यति।

--------------

हिन्दुस्थान समाचार