Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे भगवतो बुद्धस्य पावन-अवशेषसम्बद्धस्य प्रदर्शन्याः उद्घाटनं कृत्वा अवदत् यत् भारतं तेषां केवलं संरक्षकम् एव न, अपि तु बुद्धपरम्परायाः जीवन्-वहकः अपि अस्ति। पिप्पलवना (पिपरह्वा), वैशाली, देवनी-मोरी, नागार्जुन-कोंडा इत्यादिष्ठानभ्यः प्राप्ताः भगवान्बुद्धसम्बद्धाः अवशेषाः बुद्धस्य संदेशस्य जीवित-उपस्थितिरेव भवन्ति इति ते उक्तवन्तः।
ते अवदन् यत् भगवतो बुद्धस्य अभिधम्मः, तस्य वाणी, तस्य उपदेशाः च मूलत: पाली-भाषायामेव सन्ति। अस्माकं प्रयत्नः अस्ति यत् पाली-भाषा सामान्यजनानां मध्ये आप्यायनं प्राप्नुयात्। तेन कारणेन पाली-भाषायै शास्त्रीय-भाषात्वस्य मान्यताऽपि दत्ताऽस्ति।
प्रधानमन्त्री अवदत् यत् एते पावन-अवशेषाः भारतस्य सांस्कृतिक-चेतनया सह नित्यसम्बद्धाः सन्ति—अस्माकं दृष्ट्या एते अस्माकं आराध्यस्य अंशः, अस्माकं सभ्यतायाः अविभाज्यः अङ्गश्च। एतान् स्वमध्येषु प्राप्य वयं धन्याः स्मः। एतेषां भारतात् बहिर्गमनं, पुनः भारतं प्रति आगमनं च स्वयमेव महद् उपदेशं करोति। एतत् दर्शयति यत् दास्यावस्थया वयं न केवलं राजनैतिक-आर्थिकक्षेत्रयोः, अपि तु विरासत-दृष्ट्या अपि हानिं प्राप्नुमः।
ते अवदन् यत् गुलामीकालखण्डे एते पावन-अवशेषाः भारतात् अपहृताः। प्रायेण शताधिकवर्षपर्यन्तं ते विदेशेषु स्थिताः आसन्। एतेषां पावन-अवशेषानां अन्ताराष्ट्रिय-आपणे नीलामीकरणस्य अपि प्रयासः कृतः आसीत्।
अद्य रायपृथ्वार-सांस्कृतिक-परिसरे भगवान्बुद्धसम्बद्धानां पिप्पलवन-अवशेषानां विशालान्ताष्ट्रिय-प्रदर्शन्याः उद्घाटनं प्रधानमन्त्रिणा कृतम्। उद्घाटनानन्तरं सम्पन्ने कार्यक्रमे समभाषमाणः सः अवदत्—“भारतं केवलं भगवतो बुद्धस्य पावन-अवशेषानां संरक्षकं न, अपि तु तस्य परम्परायाः जीवन्-वहकं च अस्ति। पिप्पलवना, वैशाली, देवनी-मोरी, नागार्जुन-कोंडा इत्यादिभ्यः प्राप्ताः बुद्धसम्बद्धाः अवशेषाः बुद्ध-संदेशस्य साक्षाद् जीवित-स्थितिं सूचयन्ति।”
ते अवदन् यत् भगवतो बुद्धस्य ज्ञानं तेन प्रदर्शितः मार्गः च समग्रमानवजातये समर्पितौ स्तः। अस्माकं कृते तेषां पावन-अवशेषाः अस्माकं आराध्यस्य अंशः, अस्माकं सभ्यतायाः अविभाज्यः अङ्गश्च। भगवतो बुद्धः सर्वेषाम् अस्ति, सर्वान् संयोजयति च। ते स्वं अत्यन्तभाग्यवन्तं मन्यन्ते यतः भगवान्बुद्धस्य तेषां जीवनस्य मध्ये गाढं स्थानम् अस्ति। तेषां जन्म वडनगर-नाम्नि स्थाने अभूत्, यत् बौद्ध-शिक्षायाः महत्त्वपूर्णं केन्द्रम् आसीत्। या भूमिः यत्र भगवान्बुद्धेन प्रथमः उपदेशः दत्तः, सा सारनाथ-नामा अद्य तेषां कर्मभूमिः इति ते अवदन्।
ते पुनरवदन्—“भगवतो बुद्धस्य ज्ञानं, तेन दर्शितः मार्गः च समग्रमानवतायै समर्पितौ स्तः। गतमासेषु यत्र यत्र भगवान्बुद्धस्य पावन-अवशेषाः नीताः, तत्र तत्र भक्ति-श्रद्धयोः महान् ज्वारः उत्थितः। विश्वस्य विविध-विरासत-स्थलानां विकासः स्यात् इति भारतस्य सततम् प्रयासः अस्ति, तत्र भारतस्य योगदानम् अपि यथासम्भवम् अस्तु इति।”
अन्ते ते अवदन् यत् अद्य भारतदेशे सर्वेषां बौद्ध-तीर्थ-स्थलानां मध्ये उत्तमः सम्पर्क-व्यवस्थाः सुनिश्चितुं, विश्वस्य सर्वत्रस्थितानां तीर्थयात्रिकाणां कृते आध्यात्मिक-आस्थायुक्तं समृद्ध-अनुभवं दातुं “बौद्ध-सर्किट्” नाम योजना विकसितुं प्रयत्नः क्रियते। अस्माकं प्रयत्नः एषः यत् एषा बौद्ध-विरासत् स्वाभाविकरूपेण संरक्षणं लभेत्, यथा एषा भावी-संततिषु अपि सम्प्रेषयितुं शक्यते इति।
---------------
हिन्दुस्थान समाचार