प्रधानमंत्री मोदी भगवतो बुद्धस्य पिपरावा अवशेषाणाम् अंताराष्ट्रिय प्रदर्शन्याः कृतम् उद्घाटनम्
नव दिल्ली, 03 जनवरीमासः (हि.स.)। प्रधानमंत्री नरेन्द्रमोदी शनिवासरे नवीदिल्लीस्थिते रायपिथोरा सांस्कृतिकप्राङ्गणे भगवतो बुद्धस्य पवित्राणां पिपरावा-अवशेषानां अन्ताराष्ट्रियप्रदर्शनस्य उद्घाटनम् अकरोत्। एषा प्रदर्शनी संस्कृतिमन्त्रालयेन आयोजिताऽस्त
बुद्ध के पिपरावा अवशेषों की प्रदर्शनी


नव दिल्ली, 03 जनवरीमासः (हि.स.)।

प्रधानमंत्री नरेन्द्रमोदी शनिवासरे नवीदिल्लीस्थिते रायपिथोरा सांस्कृतिकप्राङ्गणे भगवतो बुद्धस्य पवित्राणां पिपरावा-अवशेषानां अन्ताराष्ट्रियप्रदर्शनस्य उद्घाटनम् अकरोत्। एषा प्रदर्शनी संस्कृतिमन्त्रालयेन आयोजिताऽस्ति।

अस्याः प्रदर्शन्याः शीर्षकं “प्रकाशः कमलम् च — प्रबुद्धपुरुषस्य अवशेषाः” इति। अस्याम् उत्तरा-प्रदेशस्य सिद्धार्थनगरजिलीय-पिपरावा-ग्रामात् प्राप्ताः भगवान्बुद्धस्य पवित्रावशेषाः, अस्थिकलशाः, रत्नावशेषाश्च प्रदर्शिताः सन्ति। प्रदर्शने षष्ठीशताब्दी-पूर्वईसापूर्वात् आरभ्य अद्यतनकालपर्यन्तं निर्मिताः अशीत्यधिकाः मूर्तयः, पाण्डुलिपयः, थाङ्का-चित्राणि, अनुष्ठानिकवस्तूनि च समाविष्टानि सन्ति। एषा प्रदर्शनी भारतस्य आध्यात्मिकस्यात्मनः वैश्विकनिक्षेपस्य च संरक्षणे दृढसंकल्पं दर्शयति। एते अवशेषाः सप्तविंशत्यधिकशतानां वर्षाणां (१२७ वर्षाणां) पश्चात् गतवर्षस्य जुलाईमासे मंत्रालयेन स्वदेशं प्रत्यानीताः।

अस्मिन् अवसरे केन्द्रीयमन्त्रिणः, राजदूताः, राजनयिकमण्डलस्य सदस्याः, पूजनीया बौद्धभिक्षवः, वरिष्ठसरकारीधिकारीणः, विद्वांसः, विरासतविशेषज्ञाः, कलाजगतः माननीयसदस्याः, कलारसिकाः, बौद्धधर्मानुयायिनः, छात्राश्च उपस्थिताः आसन्।

उल्लेखनीयं यत् प्रधानमन्त्रिणः नेतृत्वे अद्यावधि ६४२ प्राचीना वस्तूनि भारतं प्रत्यानीताः। अस्य ऐतिहासिकसिद्धेः सह सरकारस्य विरासत-संरक्षणे प्रतिबद्धता अतिवर्धिता भवति।

---------------

हिन्दुस्थान समाचार